पृष्ठम्:न्यायलीलावती.djvu/८०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावती ७३० · वानुन द्वितीयः तस्य स्वनोऽनुमानत्वेनानभ्युपगमात् | सा मानाधिकरण्यानुपपतरनुमानमिति चेत् । न, शाब्दसामाना- धिकरण्यम्य तत्प्रवृत्तिनिमित्त सामानाधिकरण्यादेवोपपत्तेः, अ. धंसामानाधिकरण्यानुभवस्य च धर्मधर्मिणार भेदाभावेऽपि एका. धिकरगत्वेनैवोपपत्तेः । स्वतन्त्रयांगत्वशुलगुणयोर्द्रव्याद्भेदे सा- मानाधिकरण्यमनुपपन्न मिति चन्न समवायवलेन तदुपपत्तेः । स्वतन्त्रः समवायो न तदुपपादयितुं क्षम इति चेत् । किं तस्य स्वातन्त्र्यं ? स्वमहिम्ना पराश्रितबुद्ध्यनजकत्वं ( १ ) वा ताभ्याम- सम्बद्धत्वं वा ? नायः । धर्माणां धर्मिण्याश्रितबुद्धिजनकत्वेनैव न्यायलालावतीकण्ठाभरणम् दसाघकयोस्तुल्यबलयोरित्यर्थः । सामानाधिकरण्येति । आत्यन्तिको यत्र भेदो गवाश्वादौ यत्र चात्यन्तमभेदस्तदुभयव्यावृत्तं सामानाधिकर ण्यमेव भेदाभेवसाधकं नहि भवति गौरश्वो घटोsघe इत्यर्थः । प्रतिनिमित्तति । नीलपदप्रवृत्तिनिमित्तं नीलगुणत्वं घटपदप्रवृत्तिनि मित्तं च घटत्वं तदुभयसामानाधिकरण्यादेव शाब्दसामानाधिक न्यायलीलावतीप्रकाशः शाब्देति । गौः शुक्ल इत्यत्र गोशुक्ल पदयोर्भिन्त्रप्रवृत्तिनिमित्तक योरेकाधि करणप्रतिपादकत्वं शाब्दसामानाधिकरण्यं, तश्च प्रवृत्तिनिमित्तसामा नाधिकरण्यमात्रादेवोपपन्नम्, प्रवृत्तिनिमित्तसामानाधिकरण्यं प्रवृत्ति. निमित्तयोरेकाधिकरणसम्बन्धमात्रम्, आर्थ च सामानाधिकरण्यं भिन्नयोः शब्दप्रतिपाद्ययोरेकाधिकरणवृत्तित्वं धर्मेधर्मिणोदेण्युपप नमित्यर्थः । स्वतन्त्रयोरिति । मिथो मिनेषु घटपटादिषु तददर्शनादि. त्यर्थः । समवायेति । घटपटयोस्तु न समवाय सम्बन्ध इत्यर्थः । धर्माणा- मिति । इह तन्तुषु पट इत्यादिबुद्धिजनकत्वेन समवायसिद्धेरित्यर्थः । ननु यद्यप्याश्रयान्द्भेदाभेद्योर्मिलितयोः साध्यत्वे साध्याप्रसिद्धिः, भेदा भेदयोः प्रत्येकं साध्यत्वे चांशतःसिद्धसाधनं भेदस्योभयसिद्धत्वात्, तथाप्याश्रयाद्भेदं पक्षविशेषणकृत्य तदभिन्नत्वं साधनीयमतो नोक. (१) जनकत्वमात मु०प० पाठः ।