पृष्ठम्:न्यायलीलावती.djvu/८१

एतत् पृष्ठम् परिष्कृतम् अस्ति
न्यायलीलावती



चेत् कथं निषेधः । प्रतीतं चेत्सप्तैव । पदार्थेषु सप्तत्वं नास्तीति चेन्न । आन्तर्गणिकभेदेन सत्वात् । षडलक्षणयोगितया नास्तीति चेन्न । षड्लक्षणयोगिष्वेव सप्तत्वप्रसक्तेरप्रकृतत्वेन प्रतिषेधे अ-


न्यायलीलावतीकण्ठाभरणम्

 ननु प्रतीतेऽन्यत्र विशेषणयोगो व्यवच्छिद्यत इत्यत आह-प्रतीतं चेदिति । सप्तैवेति न षडेवेत्यर्थः । ननु षडेवेति सप्तमः पदार्थो निषिध्यते तञ्च पदार्थेष्वप्रतीतेषु सप्तत्वस्य प्रतीतस्य निषेधेनापि निर्वहतीत्याशङ्क्यते-पदार्थेष्विति । घटादिषु पदार्थेषु सप्तत्वस्य सत्त्वात् तन्निषेधानुपपत्तिरिति परिहरति-नेति । अन्तर्गणो विशेषगणस्तत्र भवो भेद आन्तर्गणिकः । ननु प्रसिद्धा द्रव्यादयः षट् पदार्थाः सप्त न भवन्तीति बूम इति शङ्कते-षड्लक्षणेति । य एव पदार्था: षट् त एव सप्त इति केन प्रसञ्जितं येन निषेधोऽयमर्थवान् भवेत् तथा च तत्र सप्तत्वनिषेधो ममाप्यभ्युपगत इति परिहरति-षड्लक्षणयोगिष्वेवेति ।

न्यायलीलावतीप्रकाशः

षट्त्वमात्रव्यवच्छेदः। ननु पदार्थेषु सप्तत्वस्याऽयं निषेधो न तु सप्तमस्य, सप्तत्वं च प्रसिद्धमवेत्याह-पदार्थष्विति । उभयसिद्धपदार्थमात्रे. ऽयं निषेधः, द्रव्यत्वाद्येकैकलक्षणयोगित्वेनैकीकृतेषु षट्सु वा ? तत्र नाऽऽद्य इत्याह-आन्तर्गणिकेति । घटादिषु सप्तत्वादिव्यवहारदर्शनादि. त्यर्थः । अन्त्यं शङ्कते-षड्लक्षणेति । तथाविधापेक्षाबुद्धिविषयत्वमत्र सप्तत्वम् , सङ्ख्यायास्तत्राऽभावनियमात् । यदि पराभ्युपगमन तत्रैव सप्तत्वप्रसक्तिः कृता स्यात् तदा तद्यवच्छेदः सप्रयोजनः स्यात् , न चैवमिति परिहरति-षड्लक्षणयोगिष्वेवेति । ननु द्रव्यत्वाद्युपाधिषट्के

न्यायलीलावतीप्रकाशविवृतिः

युगपत्तिद्वयविरोधादिति वदन्ति । तत्तुच्छम् , विशिष्टलक्षणयैव तस्याप्युपस्थितेः । केचित्तु तथा सति पाण्डरत्वायोगव्यवच्छेद एव पाण्डरादिपदस्य लक्षणास्तु तात्पर्यमात्रमेवकार इति वदन्ति, तदपि न[१] एवं सति निपातमात्र एव तादृशपर्यनुयोगापत्तेः। एवमपि नानाशक्तेरस्वकाराञ्चेति । एतदितिरिक्त इत्यस्याधिकरणपरत्वे नियमव्यव. च्छेद्यमित्यादिनासङ्कर इत्यत उपाधिपरतया तद्व्याचष्टे-ननु द्रव्यत्वेति।


  1. सम्यगित्यधिक द्वितीयपुस्तके ।