पृष्ठम्:न्यायलीलावती.djvu/८१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतकण्ठाभरण-सविवृतिप्रकाशोद्भासिता ७३१ तस्य स्वग्राहकमानमिद्धत्वान | नेतरः | अविष्ठानाभावात् अ सम्बद्धत्वेऽपि आश्रित वृद्धि जनस्वभावनिमेव सामानाधिकर ण्यबुद्धिनिवांदकत्वान् | भेदाभेदाभ्यां व्यावृत्तस्य चास्य गन्धव- स्वस्येव सन्देहापादकत्वान् । अन्यथा भुवोऽपि नित्यानित्यरूप- तापत्ते : (१) | इति समवायः ॥ इति श्रीन्यायलीलावत्यां विभागपरिच्छेदः समाप्तः || न्यायलीलावतीकण्ठाभरणम् रण्योपपत्तरित्यर्थः । अतिरोहितार्थमितरत् । गन्धवत्वस्यैवीत | भूर्नित्या गन्धवत्त्वाहित्ययं हेतुरुभयव्यावृत्तेर्यथा सन्देहापादकस्तथा सामाना धिकरण्यमपीत्यर्थः । इति महामहोपाध्यायश्रीशङ्करकृते लीलावतीकण्ठाभरणे विभागपरिच्छेदः समाप्तः ॥ न्यायलीलावतीप्रकाशः दोष इत्यत आह भेदाभेदाभ्यानिति । यथा भूर्नित्या गन्धवत्वादित्यत्र गन्धवस्त्रमसाधारणं सकलसपक्षविपक्षव्यावृत्तत्वात्तथा सामानाधि करण्यमपीत्यर्थः । असाधारणानैकान्तिकस्य दूषकताबीजमाह अन्य थेति । यथा गन्धवत्वं व्योमादेर्थ्यावर्त्तमानमनित्यतां साधयेत्तथा ज. लाइयवृत्ततया नित्यत्वमपीत्यकरूप धर्मिणो विरुद्ध द्वैरुप्यापत्तिरि न्यायलीलावती प्रकाशविवृतिः मिनं वेत्यनुमानविशेषणम् । भिन्नाभिन्नमिति कर्मपदमिति ध्येयम् । यथा गन्धवत्वमिति । यद्यप्यसाधारणे विरुद्धद्वैरूप्यापत्तिर्न दूषकताबीजमपि तु संशायकत्वमेव, तथापि विरुद्धद्वैरुप्वापतौ न निश्चायकत्वमतः संशा- यकत्वमिति परम्परया तस्या अपि दूषकतायामुपयोग इति भावः । व स्तुतो विरुद्ध वरूप्यापत्त्याऽनिश्चायकत्वे परम्परानुमितिप्रतिबन्ध एव दूषकताबीजम्, परस्परविरुद्ध व्याप्तिज्ञानत्वेनैव चास्थ प्रतिबन्धकता, नतु पक्षघर्मताज्ञानसाहित्येनेति न सत्प्रतिपक्षाभेद इति विपश्चितं मा गिति । जलोदरीत । अतगुणसंविज्ञानबहुव्रीहिणा जलशानादोरत्यर्थः । (१) नित्यत्वानित्यत्वापत्तरिति प्रा० पु० पाठः ।