पृष्ठम्:न्यायलीलावती.djvu/८१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७३४ न्यायलीलावती त्र्यायतिरेकी साधयनीति चेन्न। शशविषाणादिमत्त्वसाधनापत्तेः । दृश्यानुपलब्धिवाधिनत्वेन शरीरस्य शशविषाणादिमत्त्वासाघनं नत्वप्रसिद्धविशेषणत्वनति चेत् । न । अतीन्द्रिय [शृङ्ग] संसर्गा- चातुमानापत्तेः (१) । साध्यविशेषणा सिद्धौ तव्यतिरेकनिरूपणायो गात्माध्यसाधनये । र्व्यतिरेकव्याप्तेरसिद्धेः । न ह्यात्माप्रतीतौ निरा- त्मको घट इति शक्यं वक्तुम् ( २ ) | नैरात्म्यं न च घटस्य प्रत्यक्ष- बेयं, तस्य तत्रासामर्थ्यात् । नानुमानगम्यं, कचिदपि नैरात्म्या न्यायलीलावत'कण्ठाभरणम् नत्वप्रसिदया विषाणस्य प्रसिद्धत्वादित्याह दृश्येति । योग्यं वि षाणविषाणं बाधात् मा लिध्येत् अयोग्यं तु सिध्येदेवेत्याह नेति । दोषान्तरमाह साध्येति | साध्योऽत्र पक्षः, साध्यं च तद्विशेषणं चेति । वाद्यशक्यत्वमेवोपपादयेति नैरात्म्यं चेति । तत्रेति । चक्षुरादीनां तत्रा न्यायलीलावतीप्रकाशः शशविषाणेति । यद्यप्रततिं सात्मकत्वं साध्यते तदा शराष्ट्रङ्गमप्रतीत. मनुमीयेत्यर्थः । ननु शरीरे विषाणं साध्यते तच्च नाप्रसिद्धं येन प्रतिबन्दि स्यात्, किन्तु योग्यानुपलम्मवाधान्न साध्यत इत्याह दृश्या- नुपलब्धीति । तथाप्यप्रसिद्धं शशविषाणाख्यमतीन्द्रियं साध्येतैव त. स्यायोग्यतया बाघामावादित्याह अतीन्द्रियेति । इन्द्रियजन्यं दर्शनं ज्ञान. मिन्द्रियदर्शनं तदतिक्रान्तमतीन्द्रियतया दर्शनमतीन्द्रियमित्यर्थः । साध्याप्रसिद्धौ दूषणान्तरमाह साध्यविशेपणेति । अशक्यत्वमेवोपपा दयति नैरात्म्यं चेति । तस्य तत्रेति । प्रतियोग्यप्रसिद्ध्या तदभावस्या- न्यायलीलावतीप्रकाशविवृतिः शरीरेऽसम्भववारणायाह शरीरात्मसंयोगस्येति । कार्यपदव्याव माह आत्ममनसोरिति । पक्षसंसर्गमप्रसिद्धमेव साघयतत्यिनन्तरं व्यतिरेकीति शेषः । यद्यप्रतीतमिति । अनुमितिश्च तन्मते साध्यविशेषि. कैबेति भावः । प्रतियोग्यप्रसिद्ध्यति । यद्यपि सात्मकत्त्रप्रतीतेरपि प्रति योग्यधिकरणयोरे केन्द्रियप्राह्यत्वात् प्रत्यक्षस्य तत्रासामर्थ्यादिति ( १ ) अतीन्द्रियसंसर्गायनुमानापत्तेरिति मा० पु० पाठः । ( २ ) घटः शक्यः प्रतिपत्तमिति प्रा० पु० पाहुः ।