पृष्ठम्:न्यायलीलावती.djvu/८१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतीकण्ठाभरण-प्रकाशोद्भाखिना प्रतीतावन्चयिनो लिङ्गस्याभावान् । व्यतिरेकिणस्तु सात्मकत्व- प्रतीर्ति विनाऽनुपपत्तेः एकपदावृत्तिा चच्छादिमवादिना- ऽसाधारणधर्मेण प्रतीतपदार्थानुमाने घटादावण्यसाधारणकल- शन्वादिधर्मोपळम्भेन स्वेच्छा कल्पिततत्तदसाधारणधर्मवत्त्वानुमा नप्रगङ्गान । सामान्यतोदृष्टानुमित निच्छादिसमवायिकारणं नव्यतिरेकश्वेच्छादि कार्यनिवृत्या घटादौ प्रतीतः, तत्संवर्गस्तु देहे साध्यत इति चेन् । न । तस्य कार्यात्कारणमात्रानुमानादेव- न्यायलीलावतीकण्ठाभरणम् सामर्थ्यात् मनसः बहिरप्रवृत्तरित्यर्थः । अनभिमतप्रसङ्गादपि न व्यतिरेक्यनुमानमित्याह एक्रेति । नन्विच्छा क्वचिदश्रिता कार्य्यत्वादि ति यदिच्छासमवायिकारणमनुमित तद्व्यतिरेको घटादौ सुग्रह एवेति न कथं व्यतिरेकनिरूपणमित्याह सामान्यत इति । शरीरमिच्छा. कारणवत् इच्छावत्वात् यद्यत् कार्यवत् तत्तत्कारणवदित्यन्वयि न एव तत्सिद्धर्व्यतिरेक वैयर्थ्यमित्याह नेति । विशिष्य इच्छासम वायिकारणापरिचयेऽपि साध्याप्रसिद्धेरेवेति भावः । विशिष्टे तु न्यायलीलावतीप्रकाशः प्रतीतेरित्यर्थः । व्याप्त्यप्रतीतावण्यप्रतीत लावने दोषमाइ एकपदार्थ वृत्तिना चेति । तद्यतिरेक-इच्छासमवायिकारणत्र्यतिरेकः, इच्छादे का र्य चेष्टारूपं तड्यावृत्या घटादौ प्रतीत इत्यर्थः | तस्येति । तस्य- इच्छा. समवायिकारणमात्रस्य, शरीरमिच्छासमवायिकारणवत् इच्छारूप कार्यवत्वात् यद्यत्कार्यवत् तत्तत्कारणवदित्येवरूपानुमानादेव सिद्धे. व्यतिरेक वैयर्थ्यमित्यर्थः वस्तुतोऽत्रापि साध्याप्रसिद्धिरिति भावः । न्यायलीलावतीकण्ठाभरणम् + , मूलार्थः प्रतिभाति, तथाप्युपनी ते प्यधिकरणेऽभावः प्रत्यक्षेण गृह्यतां एवेति मनसैव तद्ग्रहः स्यादिति तन्मतं परित्यज्य प्रतियोग्यप्रसिद्धि परतयैव व्याख्यातवान् | इच्छदिनिवृत्तिरप्यतीन्द्रियैवेति कर्मधारयं परित्यज्य षष्ठीसमासमालम्बते इच्छादेरिति । वस्तुत इति । यत्त्वतत्त्वयो रनुगतयोरभावादिति भावः | साध्यापेक्षया साध्यप्रत्ययापेक्षया ।