पृष्ठम्:न्यायलीलावती.djvu/८१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७३८ न्यायलीलावती चनायामष्टद्रव्यातिरिक्तद्रव्यवृत्तित्वशङ्कामुत्पादयति । तस्याश्चा पद्रव्येतरद्रव्याश्रितत्वविपर्यय कोटा वनुमानप्रतिनिधी भूतप्रसङ्गव त्वमेवाभिमतकोटिगोचरे संभावनात्वं, तत्सामर्थ्येन तदेककोटि- न्यायलीलावतीकण्ठाभरणम् मितेव्याश्रिता तदतिरिकाश्रिता वेति विप्रतिपत्या संशय इत्यर्थः । न्यायलीलावतीप्रकाशः दिच्छाअयोऽष्टद्रव्यातिरिक्तो द्रव्यं नवेति संशयादष्टद्रव्यातिरिक्तद्र व्योपस्थितिः, ततस्तद्रव्यवतीच्छेति साध्यत इति संशयपरम्परैव पर्यालोचना, एतादृशश्च संशयो येनेच्छाया अष्टद्रव्याश्रयत्वे बाधकं द्रव्यत्वम्याष्टद्रव्यनयत्यं त्र न गृहीतं तस्यैवत्यर्थः । नन्वेवमपि व्याप कसन्देहे कथं व्याप्तिनिश्चयः तस्य व्यापकनिश्चय साध्यत्वादित्यत आह तस्याश्चेति । यदीच्छाष्टद्रव्यातिरिक्तद्रव्याश्रिता न स्यात् अष्ट द्रव्यानाश्रिता सती द्रव्याश्रिता न स्यादिति साध्यविपर्ययकोटौ प्रतिकूलतर्कसहितः संशय पत्र निश्चयकार्य करोति । अत एव ताशसंशयोपस्थितस्वेच्छाकल्पितपदार्थसाधनमध्यपास्तम् । तद्व पर्यये प्रतिकूलतर्काभावादित्यर्थः । तत्सामर्थ्येनेति । तर्कसहकृततादृश- संशयजन्यस्मृते र्निश्चयत्वात्तत एव साध्यनिश्चय इत्यर्थः । एवं च न्यायलीलावतीप्रकाशविवृतिः यिणी प्रतिपत्तिर्यस्मादिति व्युत्पत्येति । एतादृश इति । अष्टद्रव्यवृत्ति त्वबाधग्रहे आश्रितत्वेन गृहीतायामिच्छायां प्रथमसंशयकोटिबाधा- त्, द्रव्यत्वस्याष्टद्रव्यत्वनैयत्यग्रहे चाष्टव्यातिरिक्तत्वस्य धर्मिता- वच्छेदक द्रव्यत्वकोटिविरोधाद्वितीय संशयविरोधादिति भावः । तर्कसहित इति । यद्यपि तर्कस्यापि व्याप्तिमूलकत्वेन प्रतियोग्यनिर्णये आपादका निर्णयायाप्त्यनिश्चये कथं तदवतारस्तथापि द्रव्याश्रिता इ च्छेति पक्षयित्वा द्रव्यपदविनिर्मुक्त मेवापादकमापाद्यं च प्रकृते कर्त व्यमिति भावः । यद्वा तर्कोऽव्ययं सन्देहोपस्थितप्रतियोगिकापादका दिकमादायैव प्रवर्त्तत इत्यभिमतम् । अत एवानुपद मेव प्रकाशकदेवात्र दूषणं व्यक्तकिरिष्यति । तत एव साध्यनिश्चय इति । साध्यनिश्चयकार्य- मित्यर्थः ।