पृष्ठम्:न्यायलीलावती.djvu/८१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावती यद्वा सामान्यतोदृष्टानुमितद्रव्याश्रितत्वादिना ( १ ) व्य- निरंकव्याप्तिनिश्चयेऽष्टद्रव्यातिरिक्तद्रव्याश्रितत्वविशेषनिरूपण- बाधकसाचिव्याद् गुणत्वस्य एवंभूतरूपा भांव(२) स्वप्रसिद्ध विशेषणत्वम् । एवंसति सामान्यतोऽन्वय व्याप्तेरेव विशेषनिरूपणमस्त्विति चेत् । अस्तु (३) उपायस्यानु- पायतोपाळंभाय, न तु नानात्वम् । मष्टद्रव्याश्रित न्यायलीलावतीकण्ठाभरणम् संशयाद प्युपस्थितमत आह—यद्वेति । द्रव्यत्वादिनेत्यादिपदात् कचिदाश्रितत्वसङ्ग्रहः । व्यतिरेकव्याप्तिनिश्चय इति । व्यतिरेकव्या तिनिश्चयार्थमित्यर्थः । 'चर्म्माणि द्वीपिनं हन्ति' इतिवत् । ननु गुणत्वादेव कथमयमर्थः सिध्येदित्यत आह - अटद्रव्या. श्रितत्व इति । नन्वत्रापि अप्रसिद्धविशेषणत्वप्रवादः किन्निबन्ध- इत्यत आह एवंरूपेति । बाधानवतारदशायामप्रसिद्ध विशेष णत्वमित्यर्थः । एवं सतीति । सामान्यतोदृष्टादितरबाधकसहकृतो व्य तिरेकसाध्योऽर्थश्चेत् सिद्धः किं व्यतिरेकिणेत्यर्थः । एवमिति । उ पायान्तरे उपायान्तरं नोपालम्भो न दूषणमित्यर्थः । यन्मतेऽष्टद्रव्या तिरिक्तद्रव्याश्रितत्वं न प्रकारः सामान्यतोदृष्टे तन्मते प्रकारार्थ व्य रेकति भावः । यद्वा अष्टद्रव्याश्रितत्वं यत्र पक्षविशेषणतया सामा न्यतोदृष्टे यदि नोपादीयते तदा व्यतिरेकी सावकाश इति भावः | न्यायलीलावतीप्रकाशः प्तिग्रह: सुकर इत्याह यद्वा सामान्यत इति । द्रव्याश्रितत्वादिनेत्यादि- शब्दात्केवलव्यतिरेक्यन्तरोपजीव्य सामान्यतोदृष्टपरिग्रहः चैवं किं केवलब्यतिरेकिरणा बाधकसहक्कृतात्सामान्यतोदृष्टादेव तत्साध्यसिद्धेरित्याह एवं सतीति । व्यतिरेकिणोऽप्यन्यत्र सामर्थ्याव धारणेनोपायस्यानुपायतोपालम्भाय न तूपायान्तरमिति केवलव्यति. रक्युपन्यासो न पर्यनुयोज्य इत्याह अस्त्विति । यथा च केवलव्यति- रोकिस्थलेऽप्यनुमितिसामग्री तथोपरिष्टाद्वक्ष्यते । 1 न ( १ ) द्रव्यत्वादिनेति मिश्रसम्मतोऽत्र पाठो द्रष्टव्यः । ( २ ) एवरूपाभाषेति मिश्रसम्मतः पाटः | ( ३ ) एवमुपायस्येति मिश्रसम्मतः पाठः ।