पृष्ठम्:न्यायलीलावती.djvu/८२

एतत् पृष्ठम् परिष्कृतम् अस्ति
१३
न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता


विवादात् । एतदतिरिक्ते नास्तीति चेन्न । प्रतीत्यप्रतीतिभ्यां व्याघातात् । भावानां षड्लक्षणपरित्यागो नास्तीति नियमार्थ इति चेन्न । षण्णां तत्त्वादेव । सर्वेषामिति चेन्न । षड्लक्षणयोग्याभि

न्यायलीलावतीकण्ठाभरणम्

षड्लक्षणावच्छेदेन षण्णामेकत्वानामाश्रयेष्वेवेत्यर्थः। एतदतिरिक्त इति । षड्लक्षणयोग्यतिरिक्त सप्तत्वं नास्तीत्यर्थः । तदरिक्तप्रतीतिश्चेत्तदा सप्तत्वप्रतीतिरस्त्येवाप्रतीतौ निषेधानुपपत्तिरित्याह-प्रतीतीति । द्रव्य. त्वादीनां षण्णां लक्षणानां विरोधी यः पदार्थत्वव्याप्य उपाधिस्तदवच्छेदेन सप्तत्वं निषिध्यत इति शङ्कार्थ इत्येके । षण्णां लक्षणानां विशे. षणत्वं पदार्थत्वस्य च विशेष्यत्वं विशेषणसमभिव्याहृतस्य एवकारस्य विशेष्ये विशेषणायोगव्यवच्छेदोऽर्थः। तथा च पदार्थानां षड्ल. क्षणपरित्यागो व्यवच्छेद्यस्तेन पदार्थाः षडलक्षणाक्रान्ता एवेति नियमात् सप्तमः पदार्थोऽर्थाद्व्यवच्छिन्नो भवतीति शङ्कते-भावाना. मिति । प्रसिद्धाः षड् भावाः षड्लक्षणपरित्यागिनो न भवन्त्येवेति सिद्धसाधनमाह-षण्णामिति । तत्त्वादेव पड्लक्षणयोगव्यवच्छिन्न.

न्यायलीलावतीप्रकाशः

द्रव्यत्वादिविरोधिपदार्थत्वव्याप्योपाधिमतभाव्य सप्तत्वं न वर्तते इति नियमार्थ इत्याह-एतदतिरिक्त इति । तथाविधोपाधेरप्रतीतौ न तमन्तर्भाव्य सप्तत्वनिषेधः, प्रतीतौ वा तन्निषेधोऽशक्य इत्याह-प्रतीतीति। ननु पदार्थत्वमुद्दिश्य षट्त्वविधानात् षडवेति विशेषणसङ्गत एव. कारः षड्लक्षणायोगनिषेधं ब्रूते इति नोक्तदोष इत्याह-भावानामिति । अभावबुद्धौ प्रतियोगिज्ञानवदनुयोगिज्ञानमपि हेतुः, तत्र यदि षडेवाऽनुयोगिनस्तदा सिद्धसाधनमित्याह-षण्णामिति । नन्वभावव्यक्तयः षड्लक्षणायोगव्यवच्छेदव्याप्या इत्यर्थात् सप्तमपदार्थाभावः स्यादि-

न्यायलीलावतीप्रकाशविवृतिः

द्रव्यत्वादीति । द्रव्यत्वादिषट्काभावसमूहसमानाधिकरण[१]भावत्वसमानाधिकरणोपाधिमित्यर्थः । तेन प्रत्येकविरुद्धगुणत्वव्याप्यरूपत्वाधुपाधिमादाय न बाधः न वा अभावत्वादिकमादाय बांधो न वा व्याप्यत्वविवेचने व्यर्थत्वमिति भावः । व्यवच्छेदव्याप्या इति व्यवच्छेद. मात्राधिकरणानि न तु तद्विरुद्धाश्रया इति यावदित्यर्थः । व्याप्य-


  1. भावत्वसमानाधिकरणे'ति नास्ति द्वितीयादर्श पुस्तके ।