पृष्ठम्:न्यायलीलावती.djvu/८२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता ७४१ यदि वेच्छादिसमवायिकारण मात्रस्याद्रव्यानात्मकत्वे तै स्तैग्नुमानेंनिश्चित तत्संबन्धित्वं जीवदेहस्य साध्यते । न चैवममसिद्धविशेषणत्वम् | अनुमानेन विशेषणस्य निश्चितत्वात् । न च (१) व्यतिरेकिवैयर्थ्यम् । तेन सह जीवच्छरीरसंबन्धस्य न्यायलीलावतीकण्ठाभरणम् 1 सात्मकत्वानुमानमधिकृत्याह यदि वेति । पूर्वोक्तविप्रतिपत्त्युपस्थि तलाध्यमपेक्ष्य विकल्पः | नेस्तैरिति । गुणत्वध्वंसान्य कार्थत्वादिभिरि त्यर्थः । जवच्छर्गरमिच्छा जमवायिकारणद्रव्यवत् प्राणादिमत्त्वात् यन्त्रैवं तन्नैवं यथा घटादिरिति व्यतिरेकीति भावः । अनुमानेन-ला. मान्यतोदृष्टेन विशेषणप्रसिद्धिरित्याह अनुमानेनेति । ननु सामा- न्यतोहप्रैनैव इच्छालमवायिकारणं चंत् सिद्धं कि व्यतिरेकिणेत्य त आह - नचैवमिति । तेनेति । इच्छासमवायिकारणेनेत्यर्थः । पृथिवी न्यायलीलावती प्रकाशः सात्मकत्वानुमाने साध्यप्रसिध्यर्थमाह यदि वेच्छेति । बाधक. बलादिच्छासमवायिकारणस्य पृथिव्याद्यष्टद्रव्याद्यनात्मकत्वे प्रमिते जीवच्छरीरं पृथिव्याद्यष्टद्रव्यभिन्नेच्छा लमवायिकारणवादेच्छा- वत्त्वादिति साध्याप्रसिद्धिनेत्यर्थः । ननु लात्मकत्वं शरीरवृत्ति तत्र बाधकाभावाच्छरीरत्ववदित्यन्वयिनैव साध्यसिद्धेः किं व्य तिरेरोकणेत्याशङ्कय निराकरोति न चेति । शरीरं शरीरविशेष्यबुद्धेर्व्यतिरेकिणं विनाऽनुपपत्ते रित्यर्थः । सात्मकमिति ननु संशयेन साध्यप्रसिद्धावपि न तद्यतिरेकादिनिश्चयः संभवति साध्यतड्यतिरेकव्याप्तिनिश्चययोः साध्यनिश्चयसाध्यत्वात् सा. भ्यसंशये तद्यतिरेक संशय स्यावश्यकत्वाच्च । न च तर्कसाचिव्यात्सं. न्यायलीलावती प्रकाश विवृतिः जीवच्छरीरमिति । भिन्नान्तं विशेषणं ताद्र्यसिद्धये । ननु सात्मकत्वमिति । यद्यप्य स्त्वित्यादिनैवेयं शङ्का निराकृता तथापि सर्वत्रान्वयसम्भवादु. पायत्वमेव व्यतिरेकिणो नेत्यभिमानः । परस्य तुक्तानुमानेनैव जीव- देहसम्बन्धस्यावगतेः समाधानं तुच्छमिति पूरयति शरीरमिति । साध्य संशये तब्यतिरेकेति । यद्यपि यत्राधिकरणसंशयस्तत्र व्य ( १ ) नचैवमिति मिश्रसंमतोऽत्र पाठो बोध्यः ।