पृष्ठम्:न्यायलीलावती.djvu/८२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता ७४५ स्यालीलावतीकण्ठाभरणम् उच्यते । अस्वस्थ व्यामिरन्यस्य पक्षधर्मतोत्यतिप्रसङ्गे प्रतियो अनुयोगिभाव एव नियामकः : अन एव नोपनयवैयदर्यम्, साध्या साध्यापकासावप्रतियोगिगत्ताया एत्रपक्षे उपनयेन दर्शनीयत्वात् । अाव्यतिरेकव्याख्याऽन्वयव्याप्तेरनुमानाद्वा तत्त्वात्, अनुमि- निर्वैचित्र्यं या कारणवैविध्यार्थानम्, अनुमिति सामान्ये पक्षधर्मता ज्ञानमेव तन्त्रम् | न चातिप्रलङ्गः, विशेषसामग्रीमादायैव सामान्य सा न्यायलीलावतीप्रकाशः उच्यते । व्यतिरेकच्यामेरेशन्वये गम्यगमकभावः साध्याभावव्या- पकसाधनामावस्याभावेन साधनेन पक्षे साध्याभावाभावस्य साध्यस्य साधनात व्यापकाभावेन व्याव्याभावस्यावश्यंभावात् । न चैवं क्लृप्ता. नुमानहेतुलिङ्गारामभावातज्ज्ञान नानुमितिः, अनुमितिसामान्ये व्याप्तिज्ञानस्य हेतुत्वात् । न चातिप्रसङ्गः, अनुमितिसामान्य सामग्रयां सत्यामपि अनुमितिविशेष सामग्री विरहाद नुमित्यनुत्पत्तेः तदपेक्षा- या एवं सामान्य लामचा जनकत्वात् निर्विशेषस्य सामान्यस्या भावान् अन्वयित्र्यतिरेकि सामग्रयोस्तवाभावात् । यद्वा अन्वयव्यतिरे किवत् प्रतियोग्यनुयोगिभावस्य नियामकत्वात् निरुपाधिव्यतिरे कसहचारेणान्वयव्याप्तिरेव गृह्यते इति व्याप्तस्यैव पक्षधर्मत्वमिति संक्षेपः ॥ न्यायलीलावतीप्रकाश विश्रुतिः स्तरमाश्रित्येति भावः | अनुमितिसामान्य इति । यद्यप्यन्यनिष्ठव्याप्तिज्ञानस्यान्यत्राजनक. तथा व्याप्तिज्ञानत्वमतिप्रसक्तम् तथापि व्यभिचारज्ञानविरोधि व्याप्तिज्ञानमेव सामान्यकारणमित्यभिप्रायः । न चेति । अन्वयानु. मितेर्व्यतिरेक्याकारत्वं व्यतिरेक्यनुमितेश्चान्वयाकारत्वं प्रसज्येते- त्यर्थः । एकत्र व्यापकता नवच्छेद करूपेण (परत्र व्याप्याभावत्वेन सा ध्यप्रतनिस्तयोराकारभेदादिति भावः । अनुमितीति । एकैक विशेषेऽपरा- परविशेष समयभावान्नोकप्रसङ्ग इति भावः । अन्वयीति । व्यति- रेक्यन्वयिनोरन्त्रयिव्यतिरे कि विशेष सामग्य भावादित्यर्थः | अन्वय- व्यतिरेकवदिति स्त्रमते उप्रान्तः । अत्र विकल्पो व्यवस्थया । व्यवस्था च तत्तद्व्याप्तिघटकीभूतपदार्थोपस्थित्येति ध्येयम् । ,