पृष्ठम्:न्यायलीलावती.djvu/८२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावती ननु च लक्षणं सकळलक्ष्यवृत्तित्वेन समस्तविपक्षव्यावृत्त स्वेन च निश्चितगभ्युपगन्तव्यम्, अन्यथाऽव्य प्रतिव्याप्सर्वाऽ लक्षणत्वममङ्गान् | तस्य च प्रयोजनं भेदानुमानं व्यवहारानुमानं ना ? नायः | भेदानुमानवैयर्थ्यात् । तथा ह्येकजातीयस्थात- ज्जातीयान्योन्या भात्रविशिष्टत्वानुमानं तेन धर्मेण धर्मिणोऽसाधा- • न्यायलीलावती कण्ठाभरणम् मग्या जनकत्वात् । न च साध्याप्रसिद्धिः, प्रसिद्धिप्रकाराणां दर्शित त्वात् । न च वक्रोऽयं पन्थाः, वक्ररुचि प्रांत तस्यादोषत्वादिति । इदानीं व्यतिरेक विशेषमाक्षिपति नन्विति । अन्यथेति । किञ्चिल्ल श्यत्यागेऽव्याप्तिः, अलक्ष्यसत्वेऽतिव्याप्तिः | वैयर्थ्यादिति । गन्धवती पृथिवीति विशेषणमहिम्नैवागन्धवज्जलाद्यन्योन्याभाववत्वस्य वि. शेष्ये पृथिव्यां सिद्धः विशेषणस्य इतरव्यवच्छेदकत्वस्य सर्वसिद्ध त्वादित्यर्थः । वैधर्म्यमन्योन्याभावव्याप्यत्वेन गृहीतं तमर्थमनुमाप. येदेवेति चन्न | स्वार्थानुमाने तथा त्वेऽपि परं प्रति प्रयासानुपपत्ते. रिति भावः । एतदेव स्फुटयति तथाहीति । असाधारणव्यवहार इति । गन्ध· न्यायलीलावतीप्रकाशः इदानीं लक्षणरूपव्यतिरेकिणमाक्षिपति नन्विति । तस्य चेति । पृथि- वत्विादिलक्षणेन किमितरभेदोऽनुमीयते पृथिवीत्र्यवहारो वेत्यर्थः । भेदानुमानेति । भेदो हि न स्वरूपं वैधर्म्य वा साध्यं तयोः सिद्धत्वादि ति लक्षणात्मकवैधयेणान्योन्याभावात्मक भेदोऽनुमातव्यः, तत्प्रयो जनं च धर्मिणो व्यावृतधी:, सा चान्यत्रेव प्रकृतेऽपि विशेषणशानाद्वि- शेध्ये सम्भवतीति व्यर्थ तदनुमानमित्यर्थः । न चानुमितिसामग्यां सत्यामवश्यमनुमितिरिति वाच्यम् | स्वार्थानुमाने तत्सम्भवेऽपि न्यायलीलावतीप्रकाशविवृतिः तत्प्रयोजनमिति । तद्रूपं प्रयोजनमित्यर्थः । यद्वा व्यावृत्तधीरि त्यस्यैव व्यावृत्तव्यवहार इत्यर्थः । तत्पदेनानुमानपरामर्षाद्ययाते. सङ्गतेः । बिशेषणज्ञानादिति । दण्डवानाद्यथा पुरुषेऽदण्डव्यावृत्तत्वधी. स्तद्व्यवहारो वा तथा लक्षणरूपविशेषणज्ञानादपि व्यावृत्तत्वधीस्त ह्यवहारो वा स्यादित्यर्थः । नान्त्य इत्यनाभिधातात् पूर्वकल्पान्वयभ्रमो