पृष्ठम्:न्यायलीलावती.djvu/८३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७५१ ब्याबलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता प्रमेयमात्रम्य तर्हि किं सामान्यलक्षणम् | लक्षणं हि त न्मात्रस्य विपक्षव्यावृत्तिज्ञापकामष्टम् प्रमेयमित्य साधारणव्यवहा नवृत्तिनिमित्तं वा ? नाद्य: । विपक्षव्यावृत्तेरसंभवेन तत्प्रख्या पकप्रश्नायनुपपत्तेः । न द्वितयः | प्रमाविषयस्यैव तत्त्वात् । सा . न्यायलीलावतीकण्ठाभरणम् व्दियाकाशाऽन्योन्याभावस्थापि घंटे प्रत्यक्षत्वात् अधिकरणयोग्य ताया एवाइन्योन्याभावग्रहे तन्त्रत्वात् आकाशादौ प्रत्येक प्रसिद्ध. नामितरभदानां समूहस्य साध्यत्वात् अभावप्रतियोगिकस्तु स्व. रूपन पत्र साध्यः, न च साध्याननुगमः, अनुमानान्तरेण तत्साध्य- सिद्धेः । तथाप्यभ्युपगमवादोऽयम् |

ननु यदि समानासमानजातीयव्यवच्छेदकं लक्षणं न तु परि चायकमात्रं तदा भावाभावसाधारणप्रमेयमात्रस्य कि लक्षणमत आह प्रमेयमात्रस्येति । प्रदन एवायमनुपपन्न इत्याह लक्षणं होति । त्रिपक्षव्यावर्त्तकं लक्षणमिवि जानानः प्रमेयत्वस्य विपक्षव्यावर्त्तक- त्वमपश्यन् कथमेवं पृच्छेदित्यर्थः । प्रश्नादित्यादि पदादुत्तरपरिग्रहः । प्रमेयमात्रस्य कि विपक्षव्यावर्त्तकमत्र सहृदयानां न प्रश्नः न वोत्तर- मुचितमिति भावः | प्रमाविषयस्यैवेति | भावप्रधानो निर्देशः, तेन प्रमा न्यायलीलावतीप्रकाशः प्रयेयमात्रस्येति । भावाभावसाधारणस्येत्यर्थः । लक्षणात्मकव्यति रेकिणो द्वयं साध्यमुक्तमतस्तद्विकल्पयति तन्मात्रस्येति । तत्प्रख्याप- केति । प्रश्नवाक्यं हि किशब्दसमभिव्याहृतपदान्त रवाच्यधर्मवत्तया तदेव वस्तु निश्चाययति तद्विशेषं चानध्यवसितमुपपादयति इह तु विपक्षव्यावृत्तेरसम्भवात्क निश्चयानध्यवसायौ दर्शनीयावित्यर्थः । प्रमेति । प्रमाविषयत्वस्येत्यर्थः । तच्च यद्यप्युपधायकप्रमाव्यक्तीन- ममनुगमादननुगतं तथापि परम्परालम्बद्धप्रमात्वजातिरेवानुगमि. का | न च प्रमाविषयत्वस्यापि प्रमविषयत्वादात्माश्रयः, अवच्छेदक न्यायलीलावती प्रकाशविवृतिः किंशब्दसमभिव्याहृतेति । प्रकृते च प्रमेयमात्रं लक्षणवत्वेन निश्चाय. येतद्विशेषे चानध्यवसायं कारयेत्तच्चोभयमप्यसम्भवीति भावः । प्रमात्वजातिरिति । अनुभवत्वजातिरित्यर्थः । अवच्छेदकेति । इदमुपलक्षणं