पृष्ठम्:न्यायलीलावती.djvu/८३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यायलीलावतीकण्ठामग्ण-पत्रिवृतिप्रकाशोद्भासिता ७५३ यद्यपि सम्बन्धन महाननः, नत्र योग्यतास्वरूवमननुगतं, द्रव्यत्वं तु वलसम् (१). तथापीहान्यन्नायोगव्यवच्छेदो लक्षणार्थ: । सामान्य- न्यायलीलावतीकण्टाभरणम् ताप्रकारकज्ञानविषयत्वं भाववं, सब प्रकारप्रत्ययः लामान्यादि ध्वपि भ्रमरूपः परम्परालम्वन्धसत्तामहिम्ना प्रमारूप एत्र वा अ भावस्य तु मनामानविरोधिवेति न तत्रातिव्याप्तिः । अभावत्वात्य स्वाभाववस्वमन्योन्याश्रयादिग्रस्तम् | गुगाश्रय इति । गुणसमवायी. त्यर्थः । क्षणमगुणं द्रव्यमित्यभ्युपगमादव्याप्तिमाशंक्याह तत्रेति । अनुगमन | अनुगतरूपापरिचयात् दुर्ग्रहमित्यर्थः । क्लृप्तमिति । आकाशादिषु द्रव्य साक्षात्कारानुगत प्रत्ययाभावादसिद्धमित्यर्थः । अत्यन्त गुणात्यन्ताभावविरोधिमत्वं द्रव्यलक्षणमित्यर्थः । तथ गुण प्रागभावध्वंसयोरपीति भावः । समवायिकारणत्वं वा द्रव्यत्वम्, कमन्यत्वे सति नित्यवृत्तिसत्तासाक्षाद्द्याव्यजातिमत्वम् वा 1 गुणलक्षणमाह नमान्धवानिति | नित्यवृत्ति सत्तासाक्षाद्व्याप्यजाति न्यायलीलावतीप्रकाशः अत्राहुः | अभावत्वात्यन्ताभावत्वं सत्वम् । यद्वा सत्ताभानवि. रोधिप्रकारशून्यत्वम् । सामान्यत्वादिकं न सत्तामानविरोधीति सामान्यादावारोपिता सत्ता भासते। प्रागभावत्वादिकं च सत्ताभान विरोधि, यनिष्ठतया यस्मिन् वर्मे भासमान सत्ताप्रकारिका विषयता न भवति तस्यैव प्रकारस्य सत्तामानविरोधित्वात् । गुणाश्रय इति । गुणसमवायीत्यर्थः । न सदावन इति । क्षणमगुणं द्रव्यमिति सिद्धान्ता दिव्यर्थः । योग्यतेति । गुणस्वरूपयोग्यतायास्तदवच्छेदकमनुगतं धर्म- मशात्वा ज्ञातुमशक्यत्वादित्यर्थः । द्रव्यत्वमिति । तस्यापि गुणाश्रयत्वव्यव स्थाप्यत्वादित्यर्थः । तथापीति । यद्यपि गुणात्यन्तायोगोऽत्यन्ताभा वस्तद्व्यवच्छेदश्च प्रतियोगी गुणः स चाद्यक्षणे द्रव्ये नाहित, तथापि न्यायलीलावतीप्रकाशविवृतिः चेराह यद्वेति । प्रागभावत्वादिकं च सत्तेति । सत्ताविरहव्याप्यत्वप्रतिसन्धा नानपेक्षमेव यत्प्रतिसन्धानं सत्ताभानविरोधि तादृशप्रकारशून्यत्वम् । अन्वयव्यतिरेकाभ्यां च प्रागभावत्वादिशानं तथेत्याशयेनेदमुक्तम् । ( १ ) लिमितिमु पु० पौठः ।