पृष्ठम्:न्यायलीलावती.djvu/८३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतीकण्ठाभरण- सांववृतिप्रकाशोद्भासिता ७५७ मेकमनेकवृत्ति सामान्यम् | एकद्रव्याः स्वभावसन्तो विशे- पाः । नित्यः सम्बन्धः समवायः | गन्धवती पृथिवी | स्नेहवत्य आपः | भास्वररूपं तेजः | न्यायलीलावतीकण्ठाभरणम् मनकेपामनकवृत्तित्वात् इत्येकं लक्षणमित्यपव्याख्यानम्, , वैयर्थ्यता- दवस्थ्यात् । अलमत्रायित्व सत्यनेक लमवेतत्वं तु तल्लक्षणम् | स्वभावस न्त इति । सचाशून्या इति । निःसामान्यत्वे सत्येकैक कद्रव्यमात्रवृत्तित्वं विशेषत्वमिति भावः । नित्य इति । निःसामान्यसम्वत्वत्वं नित्यस म्बन्धत्वं वा समवायत्वम् | स्वरूपसम्बन्धेनौपचारिक सम्बन्धपद. प्रयोगः । + गन्धवतीति । गन्धात्यन्ताभावानधिकरणेत्यर्थः । आकाशपर्यन्त मेवं व्याख्येयम् । परत्वापरत्वे तपनपरिस्पन्दविषयापेक्षा बुद्धिजन्ये न्यायलीलावतीप्रकाशः चासमवायित्वे सत्यनेक समेवतत्वम् | अनेकवृत्तित्वं च स्वाश्रयान्यो न्याभावसामानाधिकरण्यम् | एकद्रव्या इति । निःसामान्यत्वे सत्येकद्र. व्यमात्रवृत्तय इत्यर्थः । नित्य इति । सामान्यत्व विशेषत्वशून्यत्वे सति जातिशून्यस्समवाय इत्यर्थः । गन्धवतीति । अत्रापि पूर्ववदत्यस्तायोगव्यवच्छेदे तात्पर्यम् । न्यायलीलावतीप्रकाशत्रिवृति: तदा न्याद्यतिव्याप्तिरिति सारम् । असमवायित्व इति । समवायवृत्त्या अना धारत्वे सतीत्यर्थः । नन्वनेकत्वं यद्येकत्वानधिकरणत्वं द्रव्यवृत्तिजातावतिव्याप्तिः, अथ द्वित्वाद्यधिकरणत्वं तदा गुणवृत्ति. जातावतिव्याप्तिरित्यन्यथार्थमाह अनेकेति । अत्र स्वाश्रयपदं किञ्चि तस्वाश्रयपरम् । वस्तुतो द्वित्वावच्छिन्ने परमाणुपरिमाणेऽतिप्रसक्तिवा. रणाय एकपदमिति मूलमेव सम्यगिति मन्तव्यम् । सामान्यातिप्रस क्तिभयेन ब्याचष्टे निःसामान्यत्व इति । अत्रं सत्यन्तेन द्रव्यगुणकर्मणाम् । उत्तरदलेन सामान्यस्य वारणम्, वृत्तिपदं समवायपरमतो न समवा याभावयोरतिप्रसक्तिः । नित्यस्यापीश्वरज्ञानादे: स्वरूपसम्वन्धतया तिव्याप्तेराह सामान्यत्वेति । आद्यक्षणाव्याप्तेराह अत्रापीति । ननु भास्वरत्वं परप्रकाशकत्वमिति