पृष्ठम्:न्यायलीलावती.djvu/८३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

म्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता ७५९ रूपादीनां चतुर्णा स्वस्वसामान्यम्, न तु नयनादिग्राह्यता, अतीन्द्रिये तदभावान्, योग्यताया अनुगताया उक्तानतिरे- कात् | गणनव्यवहारप्रयोजिका संख्या | परिमाणं मानव्यवहा रयोगि(१) । पृथगिति बुद्धेरमाधारणो विषयः पृथक्त्वम् । कार्य: . न्यायलीलावतीकण्ठाभरणम् स्वस्वसामान्य रूपत्वरसस्वादि । उक्तानतिरेक दिनि । चक्षुर्ब्रहणयो- ग्यतावच्छेदकं रूपत्वमेव वाच्यमित्यर्थः । एवमन्यत्रापि | गणनव्यव. हारहेतुश्च संख्यात्वव्यवहारहेतुस्तेन संख्यात्वमेव विवक्षितम्, अ. न्यथा प्रत्येक समुदायविवक्षायामव्यात्यसिद्धी स्याताम् । अव ध्यनिरूप्यत्वे सत्येकमात्रवृत्तिवृत्यनेकव्यावृत्तगुणत्वव्याप्यजाति. मत्वं लक्षणमिह विवक्षितम् । परिमाणत्वमिति | परिमाणत्वजातियोगि त्वमित्यर्थः । पृथगिति । अवध्यनिरूप्यत्वेनाविशेषितं संख्यालक्षण भाग एव पृथक्त्वलक्षणम् । कार्घ्य इति । द्रव्यासमवायिकारणवृत्ति. न्यायलीलावतीप्रकाशः स्वस्वसामान्यमिति । रूपस्य रूपत्वं रसस्य रसत्वादीत्यर्थः । ननु तत्र मानाभावः नयनग्राह्यत्वादिभिरुपाधिभिरव रूपत्वादिव्यवहारोपपत्ते- रित्यत आह नत्विति । योग्यताया इति । चक्षुर्ग्रहणस्वरूपयोग्यतावच्छेद- रूपस्य जात्यनतिरेकादित्यर्थः । गणनेति । यद्यपि द्वित्त्वादिव्यवहार. जनकं भागासिद्धं, समुश्चिततज्जनकत्वं च स्वरूपासिद्धम, तथापि संख्याव्यक्तिविषयव्यवहारजनकज्ञानवृत्ति कारगतावच्छेदक रूपवत्वं, ज्ञाने च कारणत्वं विषयवृत्तिधर्मावच्छेद्यमिति जातिर्लक्षणम् । असाधारण इति । यद्विशिष्टे द्रव्ये पृथगिति धीरित्यर्थः । अनेन जाति. विशेषोऽभिप्रेतः । कार्य इति । विभागाजन्याद्यशब्दासमवायिकारणवृ. न्यायलीलावतप्रकाश विवृतिः मत आह ज्ञाने चेति । तथाच ज्ञाने परस्परासम्बद्धं सङ्ख्यात्वं कार णतीवच्छेदकं विषये च साक्षात्सम्बन्धेन लक्षणमिति भावः 1 पृथक्त्ववृत्तिजातावतिव्याप्तेराह याद्वशिष्ट इति । धियोsपि विषय- विशेष एव व्यावर्त्तकोऽत आह अनेनेति । घटध्वंसवत् कपालमित्यत्र स्वरूपसम्बन्धेऽतिव्याप्तेराह विभागाजन्येति । एतच्च विशेषणं विभागा. (१) मानत्क्योगीति मा० पु० पाठः । परिमाणत्वयोगीति च मिश्रसंमतः पाठः !