पृष्ठम्:न्यायलीलावती.djvu/८४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतीकण्ठाभरण-मविवृतिप्रकाशोद्भासिता ७६१ या मात्र संगमाद्यामिका | कोरिद्रयानवधारणज्ञानं संश- यः स च वाद्यान्नकारवान्. न त्रिविधः पञ्चविधो वा लक्षणाभावान | नत्र हि संशयमात्रं वा धर्मिविशेषो वा ? स्थालेलकण्ठाभरणम् विशेष्यावृत्तिप्रकारकं ज्ञानम्. व्यधिकरणवकारावच्छिन्नविषयताप्र- तियोगिज्ञानं वा । विभागमाह | संशयविपर्ययस्वनानध्यवसा यलक्षणेत्यर्थः । केचित्तुत्युपलक्षणम्. एकस्मिन् धमिण विरो धिनानाप्रकारक ज्ञानमित्यर्थः बन्नति ह्यो यथा स्थाणुर्वा पुरुषो वेति, आन्तरः सम्यग्जानाम्यसम्यग् वा इत्याद्यात्मधर्मिकः । वार्त्तिकादिमतमालिपीत न विविध इति । आध्यमतमालिपति न पंचविध इति । समानानकधम्मोपपत्तर्विप्रतिपत्ते रुपलब्ध्यनुपलब्ध्यव्यवस्थातो विशेषापेक्षा विमषः संशय इति गोतमीयस्य संशयलक्षणसूत्रस्य भाग्य. कृता समानधर्म जत्वम समानधम्मंजत्व त्रिप्रतिपत्तिजत्वमुपलब्ध्यव्य- वस्थाजत्वमनुपलब्ध्यव्यवस्थाजत्वं चेति पंचधा संशय इति व्याख्या कृता । वार्त्तिककारादिभिश्च उपलब्ध्यनुपलब्ध्यव्यवस्थयोः पूर्वपद विशेषणत्वेनाभिधानात् त्रिविधत्वमुक्तं तदुभयमध्यनुपपन्नमित्यर्थः।अ- न्यायलीलावतीप्रकाशः ज्ञानामति । विशेष्यावृत्ति प्रकारकं ज्ञानमित्यर्थः । कोटिद्वयेत्युपलक्षणम्, लक्षणं च प्रतिपादितमधस्तात् । स चेति । मानसमात्रप्रत्यक्षविषयो धर्मी अन्तस्तदन्यद्वाह्यम् । त्रिविध इति । समानधर्मदर्शनजासमानधर्म- दर्शनजविप्रतिपत्तिज इत्यर्थः । पंचविध इति । न्यायभाष्यकारोक्तोपलब्धि- जानुपलब्धिजाभ्यां सह पूर्वोक्तस्त्रिविध इत्यर्थः । विशिष्योपस्थित एव धर्मिणि विशेषलक्षणप्रवृत्तेरित्यर्थः । संशयमात्रमित्यत्र यदि मात्र. न्यायलीलावतीप्रकाशत्रिवृतिः बुद्धिप्रकाशपदद्वयवाच्यत्वमेव लक्षणम्, पिता नाम कुर्यादित्यत्र एकत्वस्य विवक्षितत्वेन शरीरावशेषे तथात्वाभावात् । यदि च प्रथमचरमाश्रमभेदेनापि नामभेदे ईश्वरसङ्केतस्तदा पदत्रयवाच्यत्वं लक्षणमिति रहस्यम् । मिथ्याज्ञानमित्य स्यालीकविषय कमित्यर्थ कत्वभ्रमं निरासयति विशेष्यति । चतुष्कोटिकव्याप्तिभयादाह कोटि- द्वयेति । मिथ इति । साधारणधर्मदर्शनजत्वादौ लक्षण इत्यर्थ: ! ९६ म्या