पृष्ठम्:न्यायलीलावती.djvu/८५

एतत् पृष्ठम् परिष्कृतम् अस्ति
१६
न्यायलीलावती


निषेधानुपपत्तेः । अन्यत्तमाभिधाने तु सर्वेषामेव विपक्षेऽभावदर्शनेन व्याघातात् ।

अभावश्च वक्तव्यो निःश्रेयसोपयोगित्वात् भावप्रपञ्चवत् ।

न्यायलीलावतीकण्ठाभरणम्

अन्यतमेति। अन्यतमत्वं षट्सु यद्येकमनुगतं तदा द्रव्यलक्षणायोग एव गुणेष्विति तद्व्यवच्छेदोऽशक्यः। यदि च षड्लक्षणान्यान्यत्वं तदा षड्लक्षणापेक्षया यावदन्यल्लक्षणं तत् सप्तमपदार्थे वाच्यं तथा च सर्वेषां षण्णामपि लक्षणानां विपक्षे सप्तमपदार्थेऽभावदर्शनेनायोगदर्शनेन तद्यवच्छेदो व्याहत इत्यर्थः।

 पदार्थविभागे न्यूनत्वं दोषमाह-अभावश्चेति । ननु निःश्रेयसोप.

न्यायलीलावतीप्रकाशः

तिरिक्तस्यानभ्युपगमात्, अभ्युपगमे वा तस्य केवलान्वयित्वान्निषेधोऽशक्य इति भावः। ननु नैकैकस्य समुदितस्य वा द्रव्यादिलक्षणस्यायोगनिषेधः किं त्वन्यतमस्येति नोक्तदोष इत्यत आह-अन्यतमेति । द्रव्यत्वादीनां गुणादौ परित्यागस्य प्रामाणिकत्वात्तनिषेधव्याघातः। अथान्यतमलक्षणासहवृत्तितत्परित्यागनिषेधस्तदा सर्वेषां लक्षणानां विपक्षे सप्तमपदार्थेऽभावदर्शनेनान्यतमलक्षणासह. वृत्तिपरित्यागदर्शनेन व्याघातः तज्ज्ञानं विना तत्र तस्याज्ञानात् ज्ञाने वा तत्सिद्ध्यापत्तेरित्यर्थः । अन्यतमत्वं यद्येकव्युदासेनान्यदभिधीयते तदा तस्यायोग एकस्मिन्न वर्त्तत इति तन्निषेधोऽशक्यः विपक्षत्वं चैकदेशापेक्षया बोद्धव्यमित्यर्थ इत्यन्ये। किं चाभावस्य षड्भिन्नस्य पदार्थस्य प्रामाणिकत्वाद्विभागव्याघात इत्याह--अभावश्चेति । वक्तव्यः

न्यायलीलावतीप्रकाशविवृतिः

इत्यत आह-अभ्युपगमे वेति । तस्येति । द्रव्यत्वादिषट्कप्रतियोगिकतथाविधाभावस्येत्यर्थः । कथं व्याघात इत्यत आह-तज्ज्ञानमिति। सप्तमपदार्थज्ञानं विनेत्यर्थः । तथा च कारणं विनापि कार्यमिति व्याघात इति भावः । तद्भिया तज्ज्ञानाभ्युपगमे तत्सिद्ध्यापत्तौ विभागव्याघात इत्याह-ज्ञाने वेति । षडेव पदार्था इति वदतोऽभावोस्त्येवेत्यभिमानेन सर्वमिदं दूषणं तदाभिमानखण्डनं च सिद्धान्ते करिष्यत्येवेति रहस्यम् । अभावाभ्युपगमे त्वाह-कि चेति । गुणादेरित्युपलक्षणं अभा-