पृष्ठम्:न्यायलीलावती.djvu/८६

एतत् पृष्ठम् परिष्कृतम् अस्ति
१७
न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता


कारणाभावेन कार्याभावस्य सर्वमतसिद्धत्वादुपयोगित्वसिद्धेः। न चेदेवं भावोऽपि कश्चिन्नाभिधातव्य इति पञ्चैवाभिधातव्याः पारतन्त्र्यादिति चेन्न, समवायादेरप्यनभिधानप्रसङ्गात् ।


न्यायलीलावतीकण्ठाभरणम्

योगिपदार्थविभागोऽयं तथा चाभावस्य तदनुपयोगिनोऽनभिधानं न दोषायेत्यत आह-निःश्रेयसोपयोगित्वादिति। ननु अभावो नोक्तो निःश्रेय. साऽनुपयोगित्वादिति हेतुरेवासिद्ध इत्यत आह-कारणेति । दुःखकारणशरीराद्यभावेन दुःखाभावः स एव निःश्रेयसमिति कथं नाभावस्य निःश्रेयसोपयोगित्वमित्यर्थः। किं च मोक्षोऽपि अभावरूप एवेत्यभावविभाग आवश्यक इति भावः । निःश्रेयसहेतु. त्वेऽपि अभावस्यानभिधाने दोषमाह-न चेदिति । पञ्चैवेति । षड़भिधाननियममात्रं व्यवच्छिनत्ति । ननु स्वतन्त्रपदार्थमात्रविभागोऽयं परतन्त्राभावानभिधानेऽपि न दुष्ट एवेत्याह-पारतन्त्र्यादिति । पारतन्त्र्यमि. तरनिरूपणाधीननिरूपणत्वं यदि तदा समवायोऽपि न विभक्तव्यः। अथ विशेषणत्वं तदा न कोऽपि पदार्थो विभन्यः सर्वेषां यथायथं विशेषणत्वादित्याह-समवायेति । समवेतत्वमिह विकल्पनीयमपक्षवृत्तित्वात् ।

न्यायलीलावतीप्रकाशः

पृथक् विभक्तव्यः । मनु निःश्रेयसोपयोगिपदार्थविभागोऽत्रेति न तदनुपयोग्यभावो विभक्त इत्यत आह-निःश्रेयसेति । मिथ्याज्ञानाद्यभावानां मोक्षोपायतया तत्रोपयोगादित्यर्थः । वस्तुतो मोक्षस्याभावरूपतया सोऽभ्यर्हित इति विभागार्ह इति भावः। पञ्चैवेति । एवकार: षडभिधाननिषेधपरः । ननु चापरतन्त्रः पदार्थोऽत्र विभक्तव्यः, अभावश्च न तथेत्याह-पारतन्त्र्यादितीति । पारतन्त्र्यं न विशेषणत्वं सर्वानभिधानापत्तेः, नापि समवेतत्वं गुणादेरण्यनभिधानप्रसङ्गात्, नापि परज्ञानाधीनज्ञानविषयत्वं संयोगसमवायादेरनभिधानापत्तेरेित्याह-समवायादेरिति । नन्वत्र पदार्थो द्विविधो भावोऽभावश्चति पदार्थविभाग आर्थः शाब्दश्च, भावरूपाः द्रव्यादयः षडिति विभक्तविभाग इति नोक्तदोष

न्यायलीलावतीप्रकाशविवृतिः ।

वाभिधानप्रसङ्गाच्चेत्यपि द्रष्टव्यम् । ननु नञर्थोल्लेखोऽस्त्येव नञर्थध