पृष्ठम्:न्यायलीलावती.djvu/८७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावती बुद्धिवेद्यत्वं वा । एतेनाश्रितत्वं व्याख्यातम् ! येन च यत्समा- नमिति च प्रमाणलक्षणवद्वाचकः शब्द इतिवचोपपद्यते । न्यायलीलावतीकण्ठाभरणम् अपि बुद्धेर्शेयत्वमिति न स्वप्रकाशानवस्थेति भावः । एवमभिधेय. स्वमप्युपपद्यमित्युपेक्षितवान् । एतेनेति । ज्ञानवत् समवायस्यापि स्वरूपसम्बन्धेनवाश्रितत्वमिति नाव्याप्तिरित्यर्थः । यद्वा इह तन्तुषु पटसमवाय इति धीन तथा नित्यद्रव्येष्वपीति भावः । समवेतलम. वायाद्यम्यतरत्वमाश्रितत्वमिति तु तत्वम् । आश्रितत्वेऽपि आश्रितत्वं साधर्म्यमुपपादयितुमाह येति । प्रमाणलक्ष गवदिति । यथा प्रमाणेषु न्यायलीलावतीप्रकाशः नाभावादिरूपे यथा तथाऽत्रापीत्यर्थः । अथवा न ज्ञानत्वेनैवानुगमः, किन्तु अयं पदार्थों ज्ञात इति ज्ञानविशेषणैवानुगम इत्याह ज्ञेयोय. मिति । न च ज्ञानावशेषाप्रतिसन्धाने शेयत्वव्यवहारानुपपत्तिः, सा. मान्येनापि रूपेण ज्ञानविशेषप्रतिसन्धानात् शेयत्वतुल्ययोगत्वाच्चा- भिधेयत्वं न पृथक् समाहितम् । एतेनेति । ज्ञानवत्समवायस्यापि स्व. भावप्रत्यास नत्वेनेत्यर्थः । तथा च भावत्वे सति संयोगभिन्न प्रत्या. सत्या (२) आधेयत्वमाश्रितत्वमित्यर्थः । साधम्यपदार्थदूषणं समाधत्ते येन चेति । यथा विवादपदं प्रमाणं यथार्थानुभवकरणत्वादिति प्रमा णमात्मनोऽपि प्रमाणत्वं बोधयति, यथा च वाचकः शब्द इति शब्द: स्वस्यापि वाचकत्वमाचष्ट तथा तेनैव धर्मेण विशिष्टे स धर्मो वर्त्तते, न्यायलीलावतीप्रकाशविवृतिः तिरिक्त सम्बन्धं विनैव यथा ज्ञानाभावज्ञान साढश्यादिरूपे व्यावृत्त. व्यवहारे प्रयोजकस्तथा साधर्म्यव्यवहारे प्रकृतेऽपत्यिर्थः । ज्ञेयोयमि ति। शेयत्वप्रकारकबुद्धिरेवानुगामिकेत्यर्थः । वस्तुत ईश्वरबुद्धिरेव तथेति द्रष्टव्यम् | ज्ञेयत्वतुल्येति । भावत्वाभाव समानाधिकरणाभिधानं सम्बन्धित्वं षण्णामनुगतं तदिति भावः । तथाच भावत्वे सतीते | स्वरूप. सम्बन्धेन । ध्येऽभावेऽतिव्याप्तिरिति सत्यन्तम् । नित्यद्रव्येऽतिव्या तिरिति संयोगान्यवृत्त्येति । न च कालाधेये आकाशेऽतिव्याप्तिरसा. धारण्येनेति वृत्तिविशेषणात् । तेनैव धर्मेण विशिष्ट इति । प्रामाणिकत्वाद- ( १ ) संयोगाम्य वृत्स्येत्यत्र विवृतिकृत्संमतः पाठो बोध्यः ।