पृष्ठम्:न्यायलीलावती.djvu/८८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता ८०१ चयदि परमेव सत्तायाः, तदा द्रव्यादेरपि जातिता । अपरं चेन्न सत्तायामाश्रितत्वम्, न हि तस्या अपरं तत्रैव समवेयात् । विरोधित्वे च सत्प्रत्ययवज्जातिप्रत्ययस्यान्यथा सिद्धेः । न च 9 न्याय लीलावतीकण्ठाभरणम् कितुमुचितमिति निरस्थति यदीति । यदि यत्र सत्ता तत्र जातित्वमि ति तदा द्रव्यादिरपि जाति: स्यात् जातित्वाश्रयत्वात् अथ यत्र जातित्वं तत्र सत्ता तदा सत्तायां जातित्वं न वर्चेत, नहि व्याया जातिव्र्व्यापिकायां जातौ वर्त्तते तथाऽदर्शनात् । यत्र प्रमेयत्वं तत्रा भिधेयत्वमित्यादौ यद्यपि व्याप्यं व्यापके वर्त्तमानं दृष्टमेव, तथापि जातावियं व्याप्तिनपाघावपीति, अत एवोक्तं - तत्रैव समवेयादिति । अपि च यत्र जातित्वं तत्र सत्तेति सत्तायामेव व्यभिचारः, नहि सा स्याद्या सत्ता सत्तायामात्माश्रयानवस्थयोः असङ्गात् । ननु परापर. भावाभावेऽपि गोत्वाश्वत्ववद्विरुद्धे एव सत्ताजातित्वे जाती स्याता मित्यत आह विरोधित्व इति । यथा सत्तायां सत्प्रत्ययो न सत्ताकृत न्यायलीलावतीप्रकाशः स्यात्, सामान्ये च जातित्वं परं सामान्यं सम्भाव्यते इति तदेतद् दूषितम् अपरं चेदिति । यत्र परं तत्रैधापरं वर्त्तते न च सत्तायां सत्ता. वस्वम्, अतः कथं तत्र सत्ताव्याप्यजातिर्वर्त्ततेत्यर्थः । ननु जातित्वं सत्ताविरोधीति न तथा जातित्वस्य परापरभाव इत्यत आह विरोधि स्व इति । यथा सप्तायां सत्प्रत्ययः प्रमाणबाधात् भ्रान्तः तथा सत्ता. यां जातिप्रत्ययोऽपि भ्रान्तः स्यादित्यर्थः । यद्यपि विरुद्धत्वे जातित्वं न स्वसत्तानिर्वाहकं, तथापि सत्ताविरहेऽपि जातित्वसामान्येनैव जातेर्नि: सामान्यत्वं विरुद्धमित्यभिप्रेत्य शङ्कितम् । यद्यपि जातित्व. न्यायलीलावती प्रकाशविवृतिः दिति तत्रापरितुष्यन् प्रकारान्तरेण व्याचष्टे यथा सत्तायामिति । यद्यपि सत्तायां प्रत्ययस्य भ्रान्तत्वे आपादकाभावः, तथापि यदपि जातित्वमङ्गीकार्य तत्रापि जातित्वप्रत्यय आत्माश्रयत्वभयेन भ्रान्तः स्यात् त्वम्मते, मम तु जातित्वमुपाधिरेवेति न तत्र जातित्वप्रत्ययो येन भ्रान्तः स्यादिति भावः । एवञ्च सत्तापदं तथा सत्तायामित्यत्र जातिश्वपरम् । तथापि सत्तेति । तथाच स्वतन्त्रेयमाशङ्का न तु पूर्वशङ्कानु रुद्धेति भावः । जातिसामान्येन जातित्वसामान्ये नेत्यर्थः । कचित्पाठ एव तथा । यद्यपि जातिस्वेति । यद्यपि पूर्व सत्ताजातिनिराकरणप्रसङ्गेन । १०१ १०