पृष्ठम्:न्यायलीलावती.djvu/८८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता ८०३ न्मनसः (१), कथमन्यथा सुखायुपलब्धि साधकतमत्वम् एकैकशो व्यभिचारात् । अणुत्वात्मसंयोगिताकारस्या साधकतमसाधार- ण्यात् । कर्णशष्कुलीवद्विशिष्टादृष्टोपगृहीतस्येति चेन्न। अनेकस्वे सत्यसाधारणसाक्षात्कारित्रमा कारणतया (२) ऽवान्तरजातिमत्ताया नियमात् । वेगश्राशुसंचारभेदस्य वेगहेतुत्वेन प्रतिबन्धावधारणात् न्याय लीलावती कण्ठाभरणम् खाद्युपलब्धिकारणतावच्छेदकतयापि तत्कल्पनीयमित्याह अन्यथेति । तदणुत्वेनात्मसंयोगित्वेन वाsवच्छिद्यतां कि मनस्त्वेनेत्यत आह एकैकश इति । पार्थिवादिपरमाणुषु घटपटादिषु च तदतिप्रसक्तं न सुखोपलब्धिकारणतावच्छेदकमित्यर्थः । विशिष्टादृष्टोपगृहीतयोस्तयो. रेवावच्छेदकत्वं स्यात् किं मनस्त्वेनेति शङ्कते कर्णेति । सुखसाक्षात् कारकारणतावच्छेदकत्वेन मनस्त्वकल्पनमावश्यकम् | न च शब्द. साक्षात्कारकारणतावच्छेदकतया श्रोत्रत्वमपि जाति: स्यादिति वाच्यम् | तस्य पुरुषभेदेऽध्येकत्वात्, अतएवोक्तमनेकत्वे सतीति । वेगश्वे. न्यायलीलावतीप्रकाशः गुणवस्वमुपाधिरित्यत आह कथमिति । विपक्षे बाघकात् साधनस्य साध्यव्याप्यत्वेन तव्यापकतयोपाधेः साध्याव्यापकत्वादित्यर्थः । सत्यात्मसंयोगि ननु सुखाद्युपलब्धि साधकतमत्वावच्छेदे क प्रणुध्वे त्वमेव स्यादित्यत आह अणुत्वेति । विशिष्टेति । विशिष्टादृष्टोपगृहीतत्व. मेव तदवच्छेदकं स्यादित्यर्थः । अनेकवे सतीति श्रोत्रव्यावर्त्तनार्थम् । न्यायलीलावतीप्रकाश विवृतिः · प्रत्यक्षजनकतावच्छेद कजातित्वं च व्यापकतावच्छेदकमत मूले तदनुसारेणैव विपक्षबाधकमुक्तम् । पवश्च मूले हेतौ श्रोत्रपरमाण्डोर्यावर्त्तनाय विशेषणद्वयमिति मन्तव्यम् । उद्भूतत्व. मादाय प्रत्यक्षजनकतावच्छेदकजातिमत्त्वं गुणेऽपि रूपादाविति साध्याव्यापकत्वमयादाह साधनावच्छिन्नेति। मनो द्रव्यत्वापरजातिम दिति साध्ये श्रोत्रे व्यभिचार हात सत्यन्तमित्याह अनेकत्वे सतीति । अनेकत्वं स्वसमानाधिकरणस्वान्योन्याभावप्रतियोगिवृत्तिद्रव्यवि. भाजकधर्मवस्वम् । मूलेऽसाधारणप्रमेत्यादेः प्रत्यक्षमात्रवृत्तिकार्यता. ( १ ) जातिम एवं मनसः मु० पु० पाठः | ( २ ) प्रमालाक्षात्कार कारणतयेति प्रा० पु० पाठः ।