व्याघातः। अद्रव्यान्तरत्वं सर्ववादिनिषिद्धम् । अथ गुणान्तरं चतुविंशतित्वव्याघात इति मेयान्तरमेव तमः । अत्रैव सङ्ग्रह श्लोकः-----
नाभावोऽभाववैधर्म्यान्नारोपो बाधहानितः । |
न्यायलीलावतीकण्ठाभरणम्
इति । नवैव द्रव्यानि उद्दिष्टानि लक्षितानि परीक्षितानि च, तद्व्याघात इत्यर्थः । तर्हि नवस्वेवान्तर्भवतु तथा च रूपवत्त्वक्रियावत्त्वादिकमप्युपपद्यत इत्यत आह-अद्रव्यान्तरत्वमिति । नवान्तर्भूतत्वमित्यर्थः। निःस्पर्शत्वान्न वायुपर्यन्तान्तर्भावः, अनित्यत्वाच्च नाकाशादिष्वन्तर्भावः इत्यर्थः । अभाववैधर्म्यादिति । निषेधार्थतयाऽभासमानत्वं वैधर्म्यं न तु नीलरूपवत्त्वं तथा सति द्रव्यत्वे मेयान्तरत्वभङ्गः। नन्वारोपितनीलरूपमेव तमः स्यादत उक्तं--नारोप इति । ननु द्रव्यादिषु षट्सु तदन्त-
न्यायलीलावतीप्रकाशः
लाद्यारोपो न स्यात् नीलतद्विशिष्टसाक्षात्कारे चक्षुष आलोकापे. क्षस्यैव सामादित्यर्थः। 'अद्रव्यान्तरत्वं' न द्रव्यान्तर्भूतत्वमित्यर्थः । सर्वेति । गन्धस्पर्शशून्यत्वान्न पृथिवी नीलत्वान्न जलादीति त्वयाप्यनुमतमित्यर्थः। अत्र न कर्मान्तरमित्यपि द्रष्टव्यम्। मेयान्तरत्वं षडतिरिक्तभावत्वं तेन अभावेन मेयान्तरेण न सिद्धसाधनम् । अभाववैधर्म्ये भावत्वसाधकः पूर्वोक्तो हेतुः।
न्यायलीलावतीप्रकाशविवृतिः
मिति वाच्यम्, द्रव्याभावान्यतरत्वरूपपक्षधर्मावच्छिन्नसाध्यव्यापकत्वात् । व्यञ्जकत्वं च विषयत्वातिरिक्तरूपेण । अतो विषयीभूयस्त्व. व्यङ्गे आलोकाभावे न साध्याव्यापकत्वम् । साधनाव्यापकत्वमाह-- तमस्त्विति । न कान्तरमिति । उत्क्षेपणादेरन्यदिदं न कर्म्मेत्यर्थः । तेन नाप्रसिद्धिः। षडतिरिक्तेति । अत्रापि षडतिरिक्तमिदं भावत्वाश्रय इति साध्यमतो नाप्रसिद्धिः । अभाववैधर्म्यं भावत्वमपि तस्य च हेतुत्वे साध्याविशेष इति विशेषपरतामाह--अभावैवधर्म्यमिति। [पूर्वोक्तो हेतु' निषेधेनाप्रतीयमानत्वम् । ] [१]
- ↑ एतन्मध्यस्थपाठो द्वितीयादर्शपुस्तके नास्ति ।