पृष्ठम्:न्यायलीलावती.djvu/८९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

'यायलीलावतीकण्ठामरण-सविवृतिप्रकाशोद्भासिता ८०५ न च मनसः तदारम्भे स्थवीयस्तया युगपन्नानाज्ञानोत्पत्तिरिति वाच्यम् । अवयविन इन्द्रियभावाभावात् । न च परत्वादिकं ब्योम्नि, परबुद्धिव्यपदेशस्यावच्छिम एव (१) सम्भवात् पृथ वत्ववत् | न च नित्यमहत्ववदपरिमितेऽपि परिमाणव्यवहाराद- त्रापि परापरव्यवहार इति वाच्यम् | महबुद्धिवेद्यस्य परिमाण. त्वात् । अस्य चावान्तरावच्छेदाप्रतिभासेऽपि (२) भूगोलकमहत्त्वव त्परिमाणोपत्तेः, अन्येभ्योऽपि महानिति बोधोपपत्तेः । प्रकृते स्ववधिविरहाव्यपदेशानुपपस्या परबोधस्थापि ततुल्यविषयस्या- नुपपत्तेः । न च भूतत्वम् अर्थत्ववदुपाघिसामान्यबोधेनैवोप , न्यायलीलावतीकण्ठाभरणम् अवयविन इति । गगनादौ परस्यापरत्वे शङ्किते निराचष्टे न चेति । मूर्त्त. मेवावधि कृत्वा मूर्त्तेष्वेव देशिकयोः परत्वापरत्वयोरुत्पादनियमा न ते गगनादावित्यर्थः । यथा मूर्त्तत्वं तिरस्कृत्य परिमितव्यवहार. स्तथा परापरव्यवहारोऽपि स्यादित्याह नित्येति । महदाकाशमिति बुद्ध्वा परिमाणमेव विषयी क्रियते यथ मूर्त्तमविषयकृत्यापि भूगोलक इत्याह महदिति । परापरव्यवहा रस्त्ववधि मन्तरेण न सम्भवति तत्स मानविषयस्तस्वेऽपि न गगनादौ भवतीत्याह प्रकृतेऽपाति । यथा समा न्यवत्यनुपदस्विभाषा तथा बाह्यन्द्रियग्राह्यजातीय विशेषगुणवत्व. न्यायलीलावतीप्रकाशः त्तिः स्यादिति कस्यचिन्मतमपनयति न च मनस इति । अवयविनो मनो जन्यस्येत्यर्थः । मनोग्राहकमाना ल्लाधवसहक्कृतान्निरवयवस्यैव मन. स्त्वसिद्धेरिति भावः । कालकृते परत्वापरत्वे जन्मनियते व्योनि न सम्भवत इति दिक्कालयोर्बाधकमाह न च परत्वादिकमिति । यत्रावधि ना सह संयोगो न भवति तत्रैव दिक्कृतं परत्वं वर्त्तते, अत्र चावधे रपि व्योमसंयोगित्वान्न तथेत्यर्थः । अवधिनिरूप्यत्वमात्रे दृष्टान्तमा. ह पृथक्त्ववदिति । यद्वा व्यतिरेकदृष्टान्तोऽयम्, पृथक्त्वं चान्योन्याभाव. प्रतियोग्येवावधिरिति पृथक्त्वं यथा व्योम्नि तथा न परत्वमित्यर्थः । न्यायलीलावती प्रकाशविश्वतिः तेन नेष्टापादनशङ्का । सामान्यतो व्यभिचारदाह मनोजन्य- ( १ ) सावधेरेवेति मा० पु० पाठः ( २ ) चावच्छेदा प्रतिभासपीति मा० पु० पाठः ।