पृष्ठम्:न्यायलीलावती.djvu/८९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यायलीलावती झकत्वात् । एकत्वं च संख्यापरिमाणयोः समानदेशत्वनियमात् । संस्कारत्वं च स्वकारणसजातीय कार्यजनकत्वम् असति ८०८ - न्यायलालावतीकण्ठाभरणम् त्वजातिव्यञ्जकत्वादित्यर्थः । न च गगनादावेकत्वमिति यदुक्तं, त. त्रा एकत्वं चेति । गगनादाविति शेषः । परिमाणबत्त्वेनैव संख्यावत्वा नुमानादित्यर्थः । संस्कारत्वं चेति । जातिरिति शेषः । स्वकारणसजातीयेति । कर्म्मणा ज. नितौ वेगस्थितिस्थापकौ कम जनयतः, विशिष्टज्ञानेन जनिता भा न्यायलीलावतीप्रकाशः तथात्रापीत्यर्थः । व्यञ्जकत्वात्परिमाणत्वस्येति शेषः । न च परिमाण. मेव तत्र नास्ति, द्रव्यत्वेनानुमानात् । न व विपक्षे बाधकाभावः, द्रव्यत्वस्य सर्वपरिमितवृत्तिअपरिमितावृत्तिजातित्वव्याघातापत्तेः । समानदेशवेति । निरुपाधिसहचारदर्शनाच तज्ञह इति भावः । संस्कारत्वं साधयति स्वकारणेति । स्वकारणसजातीय कार्यजनकत्वम सति बाधके सामान्यनियतं येन रूपेण विशिष्टज्ञानत्वकर्मत्वादिना स्त्रात्मानं प्रति कारणत्वन्तज्जातीय कार्यजनकत्वस्यानुगमं वि. नाऽनुपपत्तेरित्यर्थः । यद्यपि स्थितिस्थापकस्य स्पर्शादिवत्कारणगुण क्रमेणोत्पन्नत्वान्न कर्मजन्यत्वं, तथापि भावनावेगयोस्तादृशजाति. न्यायलीलावतीप्रकाशविवृतिः त्राधिकरणत्वमत्र तु कारणत्वमात्रं साध्यमिति भेदः । परिमाणव्यञ्ज कश्वमिति | परिमाणत्वव्यञ्जकत्वमित्यर्थः । क्वचित्पाठ एव तथा । द्रव्य त्वस्य सर्वपरिमितेति । यद्यप्येवंस्वभावत्वेऽपि द्रव्यश्वस्य विपक्षबाधका• भाव एक, तथापि महत्त्वत्वमपकर्षानधिकरणवृत्ति परिमाणत्वसाक्षा द्याव्यजातित्वादिति तत्सिद्धिः । न चाणुत्वमप्यसिद्धमिति दृष्टान्ता- सिद्धि, कारणगुणकमोत्पन्न (वयविगुणवृत्तिगुणत्व साक्षाच्या व्यजा. तेः परमाणुगुणवृत्तितानियमेन तत्सिद्धेः । कश्चिदुणः परमाणौ वर्त्तते कश्चित्यत्र कारणगुणप्रकर्षोत्पन्नावयविगुणजातीयत्वस्यानुगतस्य प्रयोजकत्वात् । न चैवमपि ड्यणुकपरिमाणौ मानाभावः, जन्यपरि माणं प्रत्यवयवित्वेन च लाघवेन हेतुत्वादिति दिक् । येन रूपेणेति । स्वजनकतावच्छेदक विशिष्टज्ञानत्वाधारस्मृति जनकरवभावनायाः स्वजनकतावच्छेदकधर्मत्वाधारोत्तर कर्मजनकत्वं