पृष्ठम्:न्यायलीलावती.djvu/८९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८१० जयलीलावती तद्वदत्रापि जातिभेदोऽपि स्यादिति चेत् । न । अक्षति बाधके न्यायलीलावतोकण्ठाभरण शब्दमादाय तज्जात्यभ्युपगमे संस्कारत्वं विना शब्दत्वमाद्यशब्दे शब्दत्वं बिना संस्कारत्वं वेगादौ दृष्एं अध्यशब्दे संकीर्येतेत्यर्थः । तद्वदनापीति । यथा कर्म्मज्ञानसाधारणा नैका जातिस्तथा वेगभावनासा. धारण्यमापन क्यादित्यर्थः । यथा वा बीजशब्दादिसाधारणा नैका जा. तिस्तथा संस्कारत्वमपि न झ्यादित्यर्थः । शब्दबीजसाधारणजातौ परापरभावानुपपत्तिर्वाधिका प्रकृते तु न तथेत्यत आह असतीति । न्यायलीलावतीप्रकाशः शब्द: शब्दजन्यः शब्दजनकश्च, तथापि बीजे द्रव्यत्वेन संकरापत्तिः, शब्दे च शब्दत्वेन तथा आद्यशब्दे तदभावात्। वस्तुतो बीजं यत्र का. ण्डजन्यं न बीजजन्यं नापि बीजजनकमङ्करस्यैव बीजजन्यत्वात्, एवं ज्ञानमीश्वरेच्छाजन्यमस्मदाहशेच्छाजनकम, तथापीश्वरज्ञाने त नास्तीति तत्र ज्ञानत्वेन संकरापत्तिः । ननु धर्माधर्माधीश्वरप्रयत्न. जन्यो अस्मदादिप्रयत्नजनकाविति तत्साधारणी सा जातिः स्यात् । न वा कारणसजातीय कार्यजनकत्वं तज्जातिनियम्यं तज्जात्यभावेऽपि बोजशब्दयोस्तस्वात् । अत्राहु | एकवृत्तिस्वविजातीय समानाधिकरण कारणलजातीय कार्य साक्षाज्जतकत्वं तज्जातिव्यवस्थापकम् । संयोगज नकत्वे संयोगजन्यत्वेऽपि न द्रव्ये कर्मणि च संस्कारत्वमिति तयावृ त्यर्थमेकवृत्तीति । लिङ्गज्ञानं व्याप्तिज्ञानवत्युत्पन्नं लिङ्गज्ञानवन्तमा. त्मानं जनयतीति तद्यावृत्यर्थ स्वविजातीयेति । तद्वदत्रेति । यथा कारण- जातीयजनकत्वं बीजशब्दादौ, न चैका जातिरस्ति, तथात्रापि स्यादित्यर्थः । असतति । तु बाधकमुक्तमिति शेषः । न्यायलीलावतीप्रकाशविवृतिः sपि स्वरुपयोग्यतावच्छेदकजातौ बाधकाभावः । भावनायां फलानुपधाननियता जातिनस्ति स्थितिस्थापके त्वस्तीति भावः । आद्यशब्द इति 1 अन्त्यस्वशब्दे स्वरूपयोग्यतासम्बन्धादाद्ये त्युक्तम । अङ्कुरस्यैवेति । एवकारेण बीजे बजजन्यताव्यवच्छेदः । ननु साधारणकारणविवक्षया नोकदोष इत्यरुचेराह न कारणेति । बीजशब्दयोरिति । बीजस्य बीजजन्यत्वजनकत्वाभ्युपगमेनेदम् | एकवृत्ती. ति । एकवृत्ति स्वविजातीयं यत्समानाधिकरणं कारणं तज्जातीयका