पृष्ठम्:न्यायलीलावती.djvu/८९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतीकण्ठाभरण-तिप्राथोद्भासिता ८१३ न्थायलीलावतीकण्ठाभरणम् येन समं ज्ञानमेव सम्बन्धः, ज्ञानस्य तु सतस्तद्दीयता यन्निबन्धना स्वभावभेदो विषयित्वमिति | विवक्षितमिति । व्यवस्थापकमिति शेषः । संस्कारत्वतुल्यन्याय तथा शङ्कितमदृष्टत्वस्य जातित्वं परिहरति न न्यायलीलावतीप्रकाशः विषयतैव तज्जन्येच्छाविषयता, किंवा तद्विषयज्ञानजन्यत्वमेवेच्छा- यास्तद्विषयत्वम् ? नाद्यः, ज्ञाननाशे सति इच्छाया निर्विषयतापत्तेः । नान्त्यः, ज्ञानानवगमेऽव्यवगम्यमानत्वात्, जनकज्ञानल्यानियतविषय त्वेऽपि इच्छाया नियतविषयत्वाच्च । अत्राहुः - पथा घटादिना स्वस म्बन्धे समवायस्याभेदेनैव सम्बन्धरूपत्वं रूपादिसम्बन्धे च तद्भे. देन, तथा ज्ञानस्यापि घटादिना स्वसम्बन्धे सम्बन्धरूपत्वमभेदेन इच्छादिसम्बन्ध रूपत्वं तथाप्ययं पौर्वापर्य सम्बन्धोऽनुगत. भेदेन, धर्मगर्भो, नत्र घटेच्छा त्वादिकं सामान्य महित | घटगोचरेच्छात्वे नैव तत्त्वेऽन्योन्याश्रय इति चेत् । न, नहच्छिाकारणत्वमेव ज्ञानस्ये च्छासम्बन्धरूपत्वं, किन्तु ज्ञानस्वरूपमेव तथा, नियामको हि जन्य- जनकभावः । न चैवं जनकज्ञानापगमे लन्नपि प्रयत्नो निर्विषयः स्यात्, तथाच प्रवृत्त्यनियमः स्यादिति वाच्यम् । तथापि तूं करोमि नतु वेझीत्यनुभवेन ज्ञानापगमात | ज्ञानान्तरं तत्रोत्पद्यत इति चेत्तु. ल्यम् । तथापि प्रयत्नजनकं ज्ञानं नास्ति, तब्ब सम्बन्धरूपमिति चेन्न । न्यायलीलावती प्रकाशविकृतिः स्यैव सविषयत्वमिच्छासविषयत्वव्यवहारप्रयोजकं परम्परासम्बन्धेन, सविषयज्ञानस्य जन्यत्वमेव साक्षात्सम्बन्धेन वा तथेति विकल्पार्थः । इच्छायाः सविषयकत्वानभ्युपगमेन यथाश्रुतेऽसङ्गतेः । ज्ञाननाश इति । ज्ञानांत्मिकैव ज्ञानविषयतेति तन्नाशकाले इच्छायाः सविषयकत्वव्यव. हारानुपपत्ते रित्यर्थः । अनियतविषयत्वेपीति | ज्ञानस्य सिद्धासिद्धविषय- त्वेऽपीच्छाया: सिद्धविषयत्वनियमादिति । यथा घटादिनेति । न चैव मिच्छाया: स्वाभाविकमेव सविषयत्वमिति वाच्यम् । जनकीभूतज्ञा. नरूपोपाधिकत्वेन भावनायामिव सविषयत्वव्यवहारस्य सोपाधिक. त्वात् । ननु जनकीभूतज्ञानत्वेन सम्बन्धता जनकता च घटेच्छात्वजा. त्यवच्छिन्नं प्रति वा घटविषयकेच्छात्वरूपोपाध्यवच्छिन्नं प्रति वा न सम्भवत्येवेत्याशङ्कते तथाप्ययमिति | नियामिका जनकता, सम्बन्धत्वं च तत्तज्ज्ञानव्यक्तेरिव विषय इवेच्छायामपीति परिहरति नहीच्छेति ।