पृष्ठम्:न्यायलीलावती.djvu/८९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावती विषयप्रवणत्वमपेक्षित (१) मिति | न चादृष्टत्वम् | बुद्धेरुपाथिनै न्यायलालावतकण्ठाभरणम् ८१४ चादृष्टत्वमिति । बुद्धेरिति । अदृष्ट कारणानुगतबुद्धेरित्यर्थः । उपाधिनैवेति । सुखदुःखान्यतरसाधारणकारण मात्रवृश्यतीन्द्रिय जातिमत्त्वस्यात्मवृ त्यतीन्द्रियगुणत्वसाक्षाद्याव्यजातिमस्वस्थ वोपाघेस्तन्निबन्धनत्वादि. त्यर्थः । एकः शब्द इति प्रतीत्यनुरोधात् शब्देऽप्यापादितां संख्यां न्यायलीलावतीप्रकाशः यद्विषयत्वेन तस्य कारणता तद्विषयज्ञानमात्रस्यैव स्वरूपसम्बन्ध रूपत्वात् । बुद्धेरिति । धर्माधर्मयोरडष्टाकारबुद्धेः प्रत्यक्षात्मविशेष- गुणावृत्तितदीय गुण मात्रवृत्तिगुणत्व साक्षाद्या प्यजातिमाशेषगुणत्वे. नोपाधिनोपपत्तेरित्यर्थः । धर्मोऽधर्मवृत्तिसत्तागुणत्वान्यजातिरहि. तोऽधर्मान्यत्वात् पटवदिति च विरोधिमानं बाधकमिति भावः । न्यायलीलावतीप्रकाश विश्रुतिः एतेनेच्छाया: सिद्धविषयत्वशङ्कापि निरस्ता, तज्ज्ञान व्यक्तस्तत्रैवेच्छा. सम्बन्ध रूपत्वात् । तथापि तं करोमीति लाघवेन विषयतया ज्ञान. रूपत्वेन त्वयापि स्वाभाविकसविषयत्ववादिनैतत्समर्थनीय तं करोमि न तु तं वेझीति व्यवहारकाले ज्ञानापगमादित्यर्थः । यद्विषयत्वेनेति । स्वरुपयोग्यतामात्रं नियामकं तथ्वोत्तरकालीनेण्यस्त्येवेति भावः । इदं चाभ्युपेत्य वस्तुतोऽतीतमेव ज्ञानं तत्सम्बन्धः । न चोभयसम्बन्धि समकालस्यैव सम्बन्धत्वं, प्रागभावप्रतियोगिनोः सम्बन्धे व्यभिचा रादिति रहस्यम् । केचित्तु इच्छाप्रयत्नयोस्तावेव विषयौ भावनायां तु ज्ञानत्वमादायैव कारणसजातीयेत्यादि नेयम्, मूलकृता तु ज्ञान त्वजात्यनङ्गीकर्तृ मतेनाभ्युपगमवादरीत्या विषयत्वमपेक्षितमित्युक्त. मिति बदन्ति । तदयुक्तम् । अतिप्रसङ्गादकतत्वेन लाघवेन ज्ञान. स्यैव विषयतात्वौचित्यात् । प्रत्यक्षात्मविशेषेति । अत एव रूपादावति व्याप्तिवारणाय तदीयगुणमात्रवृत्तीति | ज्ञानादावतिप्रसक्तेर्वारणाय वृत्तीत्यन्तम् । तत्राप्यप्रसिद्धिवारणाय प्रत्यक्षेति. आत्मपदविशेषपद्गु. णपदानां प्रतियोगित्वविशेषणत्वनैवावैयर्थ्यम् । विशेषपदं च तथासति संयोगादावतिप्रसक्तिवारणाय। संस्कारत्वं च न जातिरिति मतेनैव वि. शेषपदघटित लक्षणं बोध्यम् । क्वचित्तदीयगुणमात्रवृत्तीति शून्यः पाठः । १) मभिमतमिति प्रा० पु० विवक्षितमिति च मिश्राभिमतः पाठः ।