पृष्ठम्:न्यायलीलावती.djvu/९०

एतत् पृष्ठम् परिष्कृतम् अस्ति
२१
न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता


 क्षणावच्छेदकश्चोपाधिः क्षणिक इति षट् पदार्थाः । विधर्मेत्यतोऽपि नियमासिद्धिः।

शक्तिश्व मीमांसकानाम् । अत्रैव संग्रहश्लोकः


न्यायलीलावतीकण्ठाभरणम्

र्भावः स्यादत आह-द्रव्यादीति। आलोकनिरपेक्षचक्षुग्राह्यत्वं द्रव्यादिषट्कवैधर्म्य॑म् ।

 क्षणेति । स्वाधेयो यः कादाचित्कोऽभावः प्रागभावः प्रध्वंसो वा तत्प्रतियोग्यनाधारः पलकलाक्षण इत्युच्यते कालोपाध्यव्यापकः कालोपाधिर्वा तदवच्छेदकः क्षणमात्रस्थायी पदार्थों वाच्यो न चैतादृशो द्रव्यादिषु मध्ये कोऽपीति तस्यावश्यकाभ्युपगन्तव्य. स्यासंग्रहाद्विभागव्याघात इत्यर्थः।

 शक्तिश्चेति । मीमांसकानामिवास्माकमपि सेति तदसङ्गाहात् विभा.

न्यायलीलावतीप्रकाशः

 क्षणेति । कालोपाध्यव्यापकः कालोपाधिः क्षणः स्वाधेयका. दाचित्काभावप्रतियोग्यनाधारो वा तदवच्छेदकत्वं नानेकक्षणाव. स्थायिन इत्यर्थात् तावन्मात्रकालवृत्तित्वलाभः, इदमेव षट्पदार्थ. वैधर्म्य॑मित्यर्थः । मीमांसकानां यथा तथास्माकमपीति शेषः ।

न्यायलीलावतीप्रकाशविवृतिः

 कालोपाधीति । कालोपाधिरव्यापकोऽघटको यस्येत्यर्थः । अन्येषां द्विक्षणाद्यात्मकोपाधीनांक्षणघटितत्वाधातिव्याप्तिशङ्का। व्योमाद्यतिव्याप्तिवारणाय चरमकालोपाधिपदम् । यद्वा कालोपाधिरव्यापको यस्येत्यर्थः। व्यापकत्वं तु तदधिकरणपर्याप्त्यधिकरणताकत्वम् । न च क्षणाधिकरणे अन्यस्याधिकरणता पर्याप्यते । यद्वा कालोपाधेरव्यापक इत्यर्थः। द्विक्षणात्मकोपाधिः क्षणस्यैव व्यापकः क्षणस्तु न कस्यापि, विद्यमान एव दण्डादौ क्षणस्यानियमात् । अत्र च कल्पद्वये व्यापकत्वं भेदगर्भमतो नासम्भवः । स्वाधेयेति । स्वं लक्ष्यत्वाभिमतो धर्मी तदाश्रयौ यौ कादाचित्काभावी प्रागभावप्रध्वसौ तत्प्रतियोग्यनाधारत्वमित्यर्थः। द्विक्षणात्मके कालोपाधौ तु नैवं प्रतिक्षणं कस्यचिदुत्पत्तिः कस्यचिञ्च विनाश इत्यभ्युपगमात् । ध्वंसादिप्रति. योगिघटादिनाऽसम्भववारणाय स्वाधेयेत्यभावविशेषणम् । अत्यन्ता