पृष्ठम्:न्यायलीलावती.djvu/९००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यायलीलावतीकण्ठाभरण-लविवृतिप्रकाशोद्भासिता ८१५ वाऽन्यथासिद्धेः | शब्दादौ चैकरखे तत्प्रतिबद्ध संयोगादिप्रसक्ताव- नित्य सावयवद्रव्यत्वेन (१) कुड्यादिगमनमतिघातापत्तौ भ्रान्त- त्वाद्बुद्धेः । एवमन्यत्रापि गुणानामगुणत्वनियमावधारणं प्रति कूलतर्फे रुनेयम् । विशेषगुणत्वं च शास्त्रीयां रूढिमाश्रित्य न्यायलीलावतीकण्ठाभरणम् निराकरेति शब्दादौ चेति । यद्यपि परमाणुरपि प्रतिहन्यत एव, तथापि प्रतीघातोपलम्भार्थमुक्कं सावयवत्वेनेति । बुद्धरिति । एक: शब्द इति बुद्धेरित्यर्थः । एवमिति | रूपादीनामपि परेण गुणवत्त्व आ. पादिते संयोगविभागध्रौव्येण द्रव्यत्वमापाद्य दोष उन्नेय इत्यर्थः । विशेषगुणत्वमिति | रूपादीनां शब्दान्तानां षोडशानां विशेषार्थव्यवच्छे दाय प्रभवन्त्यमीति योगपुरस्कारेण सूत्रकृता रूढि: परिभाषा कृता न तु परत्वादीनामित्यर्थः । ज्ञायमानं पुत्रसुखमेव पितृसुखजनकं प शमृष्यमाणलिङ्गवदतो न सुखस्य विजातीयमानजनकत्वमिति यदुक्तं न्यायलीलावतीप्रकाशः विशेषगुणत्वमिति | स्वाश्रयलमानाधिकरणद्रव्यविभाजकोपाध्यत्यन्ता भावसमानाधिकरणगुणावृत्तिगुणत्वव्याप्यजातिमति विशेषगुणपदं रूढमिति रूढ्या योगनियमान्नान्यत्र तत्प्रयुज्यत इत्यर्थः । सुखं स न्यायलीलावतीप्रकाशविवृतिः तत्राप्यात्मगुणवृत्तित्त्वं पूरणीयम् । स्वाश्रयेति । स्वं विशेषगुणताप्रयोजिका जातिर्गन्धत्वादिस्तस्य य आश्रयो गन्धादिस्तत्समानाधिकरणद्रव्यवि. ताजकोपाधिः पृथिवीत्वादिस्तदत्यन्ताभावलमानाधिकरणो यो गुण. स्तत्र न वर्त्तते या जातिस्तद्वत्त्वमित्यर्थः । अत्र सङ्ख्यात्वमादाय त. दाश्रयेऽतिव्याप्तिरित्यवृत्तीत्यन्तं जातिविशेषणम् । एवञ्च रूपत्वादेर्नील- त्यादिक मादाय विशेषगुणत्वम्, वायुरुपर्शोऽपि पाकविरोध्यनुष्णाशी. तत्वव्याप्यजातिमादाय, एवं जलांशेऽप्यूह्यम् । गुणत्वव्याप्यपदं तु घटत्वादिकमादायातिव्याप्तिवारणाय सामानाधिकरण्यमात्रपरम् । यद्यप्येवमंपि कठिनसंयोगवश्वमग्निसंयोगनाश्यता यतावच्छेदकघृतादि. द्रव्यत्ववृत्तिजातिविशेषं तदनाश्यतावच्छेदक सुवर्णद्रवत्ववृत्तिजा- तिविशेषं चादाय तत्र तत्रातिव्याप्तिस्तथापि संयोग नैमित्तिकद्रवत्वा . (१) सावयवत्वेनेति प्रा० पु० मिश्र||भेमतः पाठः | •