पृष्ठम्:न्यायलीलावती.djvu/९०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

म्यायलीलावती , परिभाषा | सा च सत्यपि निमित्ते कचिददृष्टादौ न प्रवर्तते, तान्त्रिकाणामव्यवहारारात सत्यपि गङ्गासामीप्ये घोषादन्य त्र गङ्गोपचारवत् । कर्मणि च पूर्वसंयोगादरम्यथासिद्ध संनि धित्वेनाहेतुत्वात् । स्यादेतत् यद्यन्वयी हेतुः स्यात्, न चैवम्, अनुपाधित्वस्याप्रतिबन्धत्वात् अन्यथाऽनै कान्ति के सोपाधिस्त्रो १ न्यायलीलावतीकण्ठाभरणम् अन्यथा प्रवाहसामीप्यनिबन्धन उपचारो यथा तीरे तथा घोषेऽपि स्यादित्यर्थ॥ ननु कर्म्मणि पूर्वसंयोगेऽप्युक्तलक्षणबलादसमवायिकार. गावं स्थादित्यत आह कर्मणीति । कारणत्वे सति कार्येकार्थसमवेत. कारणत्वमसमवायिकारणत्वं प्रकृते तु कारणत्वमेव नास्तीत्यर्थः । स्यादेतदिति । साधर्म्यव्यवस्थापनं स्याद्यद्यन्वयी हेतुः स्या. दित्यर्थः । अन्वयी - केवलान्वयी | पश्चरूपसम्पन्नो हि हेतुरि त्युच्यते केवलाम्वयिनि च विपक्षव्यावृत्तेरभावान हेतुत्वाम. त्यर्थः । नन्वनौपाधिकः सम्बन्धो व्याप्तिः स च केवलान्व यिन्यस्त्येष व्यासपक्षधर्म्मत्वमेव च लिङ्गत्वं न तु पञ्चरूपोपपन्नत्व मित्यत आह नचेति । अन्यथेति । व्याप्तिविघटनं हि साक्षादोषस्तदु नायकत्व मितरेषाम तोऽनैकान्तिकेऽपि स्फुटं व्याप्तिविघटनतयोपा धिरेव उद्भाव्येत न त्वनैकान्तिकत्वमित्यर्थः । तर्हि व्यभिचरित एव न्यायलीलावतीप्रकाशः निमित्त व्यवहाराभाव इत्येतावन्मात्रे दृष्टान्तमाह सत्यपीति | तीर घोषयोः प्रवाहसामप्याविशेषऽपि गङ्गाशब्दस्तीरे लक्षणया प्रयु ज्यते न घोषे इत्यर्थः । ननु कर्मणो यथा नोदनाभिघातावसमवायि. कारणे एवं पूर्वस्थितस्थिरसंयोगोऽपि तथा स्यादित्यत आह कर्म. णीति । स्यादेतदिति । एतदन्वयिहेतुत्वेन साधर्म्यव्युत्पादनं तदा स्याद्य- द्यन्वयी हेतुः स्यादित्यर्थः । नचैवमिति | पंचरूपसम्पत्तेरनुमानाङ्ग • त्वात् केवलान्वयिनि च विपक्षव्यावृत्तिवैकल्पात्, अन्यथा रूपान्तर- विकलस्यापि गमकतापत्तेरित्यर्थः । नन्वनौपाधिकः सम्बन्धोऽनु. मानाङ्गं, स चास्त्येवेत्यत आह अनुपाघित्वस्येति । विवृततात्पर्यमेतद् न्यायलीलावतीप्रकाशविवृतिः पचारिकत्वं प्रकृते नास्तीत्यत आह एतावन्मान इति । अभिप्रायिक पक्षमभिप्रायवशादेव प्रवर्त्तते व्यवहारार्थ चेदं लक्षणं न तु स्वकृत.