पृष्ठम्:न्यायलीलावती.djvu/९०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता ८१९ द्भावनापत्तेः, साध्याभावव्यावृत्या तु साध्य सम्बन्धित्वस्य मती- त्यप्रतीतिभ्यां व्याघातात् | मैवम् | अयोगव्यवच्छेदस्य ( १ ) नियमा र्थत्वात् । तथापि काल्पनिकविपक्षाव्यतिरेक इति चेन्न । अवि न्यायलीलावतीकण्ठाभरणम् । सम्बन्धो व्याप्तिस्तत्रापि स्यादित्यत आह - साध्येति | साध्यस्याभावो यत्र स विपक्षस्ततो व्यावृत्या व्यभिचाराभावः स्यात्, तत्र साध्या. भावो यदि प्रसिद्धस्तदा केवलान्वयित्वव्याघातोऽसिद्धश्चेत्तदा ततो व्यावृत्तिर्दुग्रहेत्यर्थः । साध्यायोगेति । यद्यपि साध्यायोगोऽध्यसिद्धः, सा. घ्यायोगव्यवच्छेदश्च साध्य एव, न च सा व्याप्तिरतिप्रसक्तत्वात्, तथापि साधनवनिष्ठाभावाप्रतियोगिसाध्यकत्वं व्याप्तिस्तत्राव्यरत्ये वेति भावः । ननु शशविषाणादौ प्रमेयत्वादिव्यतिरेको वाच्य एवेति कुतः केवलान्वयित्वमित्याह तथापीति | यदि विपक्षो भवेत्तदा तत्र न्यायलीलावतीप्रकाशः धस्तात् । साध्याभावभ्यावृत्येति । अत्र च न सोपाधित्वोद्भावनापत्तिः, सा ध्या भाववद्वृत्तित्वस्यैव कारणव्यतिरेक रूपस्यानैकान्तिकत्वस्यैव सा. क्षादूदूषणत्वादिति भावः | प्रतीतीति । यदि साध्यव्यतिरेकः प्रतीतः क केवलान्वयित्वम् ? न चेत् कथं साध्याभाववदवृत्तित्वमित्यर्थः । अयो- गव्यवच्छेदस्येति । ननु केवलान्वयिसाध्ये साध्यायोगस्यातः कस्य व्यवच्छेदः साधनवति स्यात्, किञ्च अयोगव्यवच्छेदो योगः, स चानैकान्तिकत्वादिसाधारणः, न वा केवलाम्वयिनि संशयः - प्रमेय त्वमत्र वर्त्तते नवेति, संशयश्च न प्रमेयविशेष्यकः, किन्तु प्रमेयत्व. विशेष्यकः विशेषणविशेष्यभेदेन वस्तुनो भेदात् । अत्राडुः | साधन. वनिष्ठात्यन्ताभावाप्रतियोगित्वमत्र विवक्षितम्, संशयश्च य एव सा. ध्यसिद्धिविरोधी स एवानुमानाङ्गमावश्यकत्वाल्लाघवाच । नतु समानविषयत्वमपि तन्त्रभू, प्रमेयत्वं घटेऽस्ति नवेति संशयश्च घटः न्याय लीलावती प्रकाश विवृतिः लक्षणानुरोधेन व्यवहारकल्पनमिति प्रघट्टकतात्पर्यम् | अधस्तादिति । ब्यातिनिरूपणावसर इति भावः । विशेषणविशेष्यभेदेनेति । साध्यसिद्धिविरो. भीति | साध्यनिश्चयप्रवर्त्तनीय इत्यर्थः । न तु समानविषयत्वमपीति | न स ( १ ) साध्यायोगव्यवच्छेदस्थेति मिश्रसम्मतोत्र पाठो ब्रष्टव्यः ।