पृष्ठम्:न्यायलीलावती.djvu/९१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतीकण्ठाभरण-सर्विवृतिप्रकाशोद्भासिता ८२९ विरोधापत्तेः । संयोगे चातिप्रसङ्गात् इति व्यणुकादिक्रमेणा- Sन्त्यावयविपर्यन्तमारम्भ इति व्यणुकसिद्धिः । कथं पुनः पक्वघटेऽपि कारणगुणपूर्वकत | रूपानाम् ? असं- भवद्विरुद्धधर्मसंसर्गो हि घटः प्रत्यभिज्ञायते, उपरिस्थितानाम- पाताच, तद्देशत्व तत्संख्यत्व तत्परिमाणत्वोपलब्धेव । अन्त:- . न्यायलीलावतीकण्ठाभरणम् च न्यूनाधिकदेशयोः समानदेशविरोधो न स्यात्तदा शरीरदेशेऽपि घटो वर्तेत संयोगवृत्त्येत्याह संयोगे चेति । इदानीं पाकजप्रक्रियां प्रस्तौति कथमिति । प्रयोजनमत्रापि आत्म. तत्त्वज्ञानमेव कथञ्चिदन्वेष्टव्यम् - सत्यवयविनि रूपादीनामुत्पादविना. शसिद्धावात्मन्यपि ज्ञानायुत्पादविनाशाविति, ज्ञानं चैतन्यम् । अवय विरूपाद्यग्नि संयोगासमवायिकारणकंन वा, अग्निसंयोगासमवायिका. न्यायलीलावतीप्रकाशः विरोधः, अत्र तु न तथेत्याह संयोगे चेति । तथासति शरावसंयुक्तेनापि घटः संयुज्येतेत्यर्थः । सम्प्रति किं पार्थिवरूपादीनामेव पाकजत्वं किंवा परमाणुवृत्ती. नामेव तेषां पाकजत्वं न त्ववयववृत्तीनामिति विचारः । अवयविरूपा. दिकं तेजःसंयोगासमवायिकरणकं नवेति संशयः । प्रयोजनं त्वा श्रये सत्येव रूपाद्युत्पादनाशसिद्धौ धर्मधर्मिभेदे रूपादेः समवायि. कारणजन्यत्वस्थितौ बुद्ध्यादेरपि तज्जन्यत्वस्थितावात्मसिद्धिः । अत्र पूर्वपक्षमाह कथमिति । आमपक्कावयविनोरभेदसाध्यकं प्रत्यक्ष. माह असम्भवदिति । अनुमानमध्याह उपरीति | मूर्त्तानामिति शेषः । ननु स्थूलस्य घटादेरन्तःपाकानुपपत्या परमाणूनों पाकः स्यादित्यत आह अन्तःपाकस्येति । द्रव्यविरोधीति । न ह्युकहेतोई व्यारम्भकसंयोगविरो. न्यायलीलावतीप्रकाशविश्वृतिः समवेतत्वस्येति । द्रव्यत्वपक्षधर्मावच्छिन्नसाध्यव्यापकस्येति शेषोऽतो न सत्तादौ साध्याव्यापकत्वम्, अन्तरावयविधीस्तु बाधकेन भ्रान्तेति भावः । तथासतीति । समवायेनैकत्र द्वयोर्मूर्त्तयोरविरोधे संयोगेनापि तथा स्यादिति शरीरावच्छिन्ने घटो वर्त्ततेत्यर्थः । अवय विरूपत्वादिकमिति । अत्र व्यक्तिपक्षतायामंशतो बाघ इति जातिपक्षता । द्रव्यारम्भ कसंयोगविरोधीति । न क्रियाहेतुरित्येव प्रकृते