पृष्ठम्:न्यायलीलावती.djvu/९२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भ्यायलीलावती , त्यस्थानवयाहित्वात् पूर्वाप (तोदासीन द्वित्वविशिष्टत्वस्य स श्वात् । विशेषणज्ञानपूर्वकता तूत्तरत्र विशिष्टज्ञानस्य व्यवस्थाप यिष्यते । अतीतगोचरद्वित्वाद्युत्पत्तौ का वार्ता ? न काचित् । कथं तर्हि तद्व्यवहारः ? यथा गुणादाविति ब्रूमः । उपादानाभावस्यैव बाधकत्वात् । एतेनाऽनागतव्यवहारोऽप्युक्तः ॥ इति संख्या | त्र्यणुकपरिमाणं संख्याजन्यं परिमाणप्रचयानपेक्षत्वे सति परिमाणत्वात् सर्वसिद्ध (१) संख्याजन्य परिमाणवत् । परिमाणज- म्यायलीलावतीकण्ठाभरणम् षणविशेष्योभय सन्निकर्षाधीनं, विशेषणसन्निकर्षश्च प्रकृते नास्तीत्यत आह विशेषणेति । 'शतं पिपीलिकानां मया हतमि'त्यादावतीतेऽपि सं ख्योत्पत्तिरिति कन्दलीकारमतमांस्कन्दति अतीतगोचरेति । समवायि. कारणमतीतं न भवत्यतस्तत्र संख्यारोप इत्यर्थः । ननु परमाणुपरिमाणं परिमाण्डल्यमिति ह्यणुकपरिमाणे तज नकं मास्तु, ड्यणुकयरिमाणं तु त्रसरेणुपरिमाणजनकमस्तु बाधका भावादित्याशंक्याह ज्यणुकपरिमाणमिति | संख्याजन्यमिति | बहुत्वसंख्या जन्यमित्यर्थः । सर्वेति । बहुभिरारब्धे यत्र महत्त्वोत्कर्षस्तत्र परिमा न्यायलीलावती प्रकाशः 9 विषयकैकशानस्य विशिष्टज्ञानतया तयोः समानकालीनत्वात् तथा व द्वित्वविशिष्टद्रव्यज्ञानकाले द्वित्वस्य सत्त्वान्न तस्य भ्रान्तत्वमत आह विशेषणेति । त्र्यणुकपरिमाणं जन्यजन्यवृत्ति परिमाणत्वादिति स्थिते सत्याह व्यकेति । परिमाणत्वात् जन्यपरिमाणत्वादित्यर्थः । सर्ववादीति | ननु यत्र समानसङ्ख्यपरिमाणैः परिमाणारम्भस्तत्र सङ्ख्यावत् परिमा- णस्याप्यारम्भकत्वनियमात् दृष्टान्तासिद्धिः, तथाप्यवयवत्रितया. न्याय लीलावतीप्रकाश विवृतिः बुद्धेर्नाांश इत्येक कालः, द्वित्वविशिष्टद्रव्यज्ञानं तद्विनाश इत्येक, पूर्ववर्तितया कारणताया अबाधनादिति सिद्धान्तसंक्षेपः । तथाप्यवयवेति । यद्यपि तत्रापि परिमाणस्य जनकत्वमन्यथा न्यून परिमाणावयवचतुष्कारब्धेऽपि परिमाणप्रकर्षांपत्तेरिति प्रागुकताद. ( १ ) सर्ववादिसिद्धेति प्रकाशकृदभिमतः पाठो बोध्यः |