पृष्ठम्:न्यायलीलावती.djvu/९२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावती रिमाणजनकत्वनियमे व्यणुकोच्छेदापत्तेः । संख्यापरिमाणयोरु. भयोरपि तुल्यस्वे परिमाणानारम्भकरवे हेत्वभाव इति चेत् । न, बहुत्वस्य महस्वारम्भे क्लृप्तशक्तिकत्वात् अणुत्वस्य च परिमाणं प्रति उपाध्यन्त रानपेक्षेण (१) स्वरूपेणादृष्टशक्तिकत्वात् । , न्यायलीलावतीकण्ठाभरणम् णुकपरिमाणमेव विजातीयमपि महत्वं जनयतु, महत्त्वासमानाधिकर संख्याया अपि महत्वजनकत्वमत्रैष त्वयापि कल्पनीयमित्याशङ्कते संख्येति । बहुभिरारब्धे महत्त्वोत्कर्षदर्शनात् बहुवं महत्वं प्रत्यस मनायिकारणं क्ऌतं नाणुत्वमिति परिहरति बहुत्त्वस्येति । ननु यद्यणु. त्वमात्रं न परिमाणकारणं क्लृप्तं, तथापि बहुत्व समानाधिकरणजन्या णुत्वेन महत्वं प्रति कारणत्वमिहैव कल्प्यतामित्यत आह उपाध्यन्त रेति । बहुत्वं चेदुपाधिस्तदा तदेव कारणमस्तु किमणुत्वेनेत्यर्थः । मनु तथापि किं बहुत्वेन त्रीण्येकान्येव त्रसरेणौ महत्वं जनयन्त्ि न्यायलीलावतीप्रकाशः त्रसरेणोरण्यणुत्वेन सिद्धलाधनादिति भावः | सङ्ख्यापरिमाणयोरिति । यथा Sणुपरिमाणस्य महत्त्वजनकत्वं न दृष्टं तथाऽणुलाया अपि जन. कत्ये वा न विनिगमकमित्यर्थः । तत्र विनिगमकमाह बहुत्वस्येति । नम्व णुत्व समानाधिकरणबहुत्वस्यापि कारणत्वमन्यत्र न दृष्टं, यदि च ब. हुत्वमानस्य तद्द्दष्टम् अणुत्वस्याऽपि परममहत्परिमाणातिरिक्तप रिमाणस्य दृष्टमिति तुल्यम् | मैवम् | त्र्यणुकमहत्वं हि नपरिमाणजन्यं सङ्ख्या प्रचयाजन्यमहत्वं प्रत्य वयव महत्वेन कारणत्वात्, नत्ववयवप. रिमाणत्वेन परमाणुपरिमाणात् घणुके महत्वापत्तेः, नापि जन्याव. यवपरिमाणत्वेन गौरवात्, नापि जन्याणुत्वेन तथाऽदर्शनात्, म हस्वविशेषस्थानियतहेतुकता पत्तेश्च, महत्त्वान्तरजातिकल्पने च गौ- रवात, बहुत्वकल्पनस्य च प्रामाणिकत्वात, किन्त्ववयवबहुत्वं तज्ज- न्यायलीलावती प्रकाशविवृतिः मानलङ्ख्यापरिमाणारब्धस्यापि दृष्टान्ततेति ध्येयम् । अणुत्वस्यापीति । झणुकवृत्तिपरिमाणस्य परमाणुपरिमाणजन्यत्वे महत्वापत्ते रित्यर्थः । यद्वा अणुत्वस्य महत्वजनकपरिमाणत्वेन महत्त्वापत्तरित्यर्थः । बहु. ( १ ) नपेक्षस्येति मा० पु० पाठः |