पृष्ठम्:न्यायलीलावती.djvu/९२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

म्यांवलीलावतीकण्ठाभरण-लविवृतिप्रकाशोद्भासिता ८४५ न च नानैकरवं जनकम् एकहेतुकत्वोपपत्तौ नानाहेतुकत्वे कल्पनागौरवात् ।। ननु संख्यापरिमाणादीनां न तावत्परिमाणं प्रति हेतुत्वम्, परिमाणमात्रेऽन्योन्यं व्यभिचारात् । नापि तव्यक्तिभेदं प्रति, आनन्त्यव्यभिचाराभ्यां दूषितत्वात् । अतोऽवान्तरजातिस्वीकारे विरुद्धयो: समावेशानुपपत्ते: । दृश्यते चोभयहेतुकत्वं यथा स न्यायलीलावतीकण्ठाभरणम् त्यत आइ नचेति । किञ्च त्रसरेणौ तदवयवबहुत्वं वा महत्त्वमारभ्यता. मणुत्वमेव वेत्यत्र लाघवमपि बहुत्वे प्रमाणसहकारि, किश्च त्रसरेणु. परिमाणं नाणुपरिमाणजन्यं परमाणुत्वादित्यपि द्रष्टव्यम् । , चतुर्विधमपि जन्यपरिमाणं संख्यापरिमाणप्रचयजन्यमिति मूल. माक्षिपति नन्विति । परिमाणत्वावच्छेदेन कारणतायां परस्परं व्य भिचारान्न कारणताग्रह इत्यर्थः । ननु प्रत्येकजन्ये परिमाणेऽपि वैजात्यमेव कल्पनीयमिति न व्यभिचार इति यदि, तदा द्वाभ्यामा. रब्धे तदुभयजातिसाङ्कमित्याह अत इति । ननु द्वाभ्यामारम्भ एव नास्तीत्यत आह दृश्यते चेति । समपरिमाणावयवद्वयारब्धापेक्षया न्यायलीलावतीप्रकाशः मकं परिमाणप्रचयाजन्यमहत्वे अवयवबहुत्वेन कारणत्वकल्पनात् । त्र्यणुकपरिमाणासमवायिकारणताग्राहकं प्रमाणं बहुत्वमेव विषयी. करोति नाणुपरिमाणं तस्य प्रत्येकनिष्ठतया नानात्वेन गौरवादि. त्यन्ये । एवं ध्यणुकपरिमाणं नाणुपरिमाणजन्यं परिमाणत्वादित्यपि द्रष्टव्यम् । तथापि नानेकत्वमेव परिमाणजनकमस्त्वित्यत आह नानेति । विरुद्धयोरिति । सङ्ख्य (परिमाणाभ्यामुसाभ्यामारब्धे परिमाणे परस्प राज्यताभाव समानाधिकरणयोः सङ्ख्यापरिमाणप्रयोज्यजात्योः सङ्कर स्यादित्यर्थः । न च तयोरसिद्धिरित्याह दृश्यते चेति । विलक्षणकार पाब्यङ्ग्या उभयारब्धपरिमाणे विलक्षणैव जातिनंतु प्रत्येक कारणप्र. न्यायलीलावतीप्रकाशविवृतिः त्वकल्पनस्येति । बहुत्वे महस्वकारणताकल्पनस्येत्यर्थः । परिमाणनचयाज- म्येति । भावमात्रेत्यर्थः । एवमिति । उक्तविपक्षबाधके सतीत्यर्थः ।