पृष्ठम्:न्यायलीलावती.djvu/९३

एतत् पृष्ठम् परिष्कृतम् अस्ति
२४
न्यायलीलावती


योर्वैशिष्टयस्यावगमः । यथा वैशिष्टये तथा स्वरूपेणैवेति, चेन्न समवायापलापप्रसङ्गात् । अधिकस्तत्र प्रवाहो हीयते न प्रतीयमान इति चेन्न, अभावेऽपि तुल्यत्वात् । बाघोऽत्रास्तीति चे-


न्यायलीलावतीकण्ठाभरणम्

ऽपि तव्द्यवहारस्तत एवास्तु किं वैशिष्ट्येनेत्याह-यथेति । समवायेति । इह रूपनमवाय इति प्रतीतिर्यथा स्वरूपसम्बन्धेन तथा तन्तुषु पट इत्यपि तेनैव स्यादिति समवायोऽपि न सिद्धेदित्यर्थः । ननु प्रतीयमानः समवायोऽपह्रोतुमशक्यः न हि तन्मात्राभ्युपगमेऽपि अनवस्थेत्याह-अधिक इति। तर्ह्यभावेऽपि तद्वैशिष्ट्यं तन्मात्रमस्तु प्रतीयमानत्वात् तदधिकः प्रवाहस्तत्रापि हीयतामित्याह-अभावेऽपीति । ननु प्रामाणिकैर्वैशिष्ट्यानभ्युपगमो बाधाधीन एवेति कश्चिदत्र बाधो भविष्यतीत्याह-बाध इति । यदि बाधोत्र तदा प्रामाणिकैरभिधीयेतैव

न्यायलीलावतीप्रकाशः

रूपेणैव तथाऽत्रापि स्यादित्याह- यथेति । तर्हि यथेह गोत्वमितीहधीनिमित्तंसमवायस्तथेह गोत्वसमवाय इत्यनुभवात्तत्रापि समवायान्तरं स्यात्। अथ तत्र स्वरूपमेव निमित्तं तदेह गोत्वमित्यत्रापि तथा स्यादिति समवायोऽपि न सिद्ध्योदित्याह-समवायेति । ननु समवाये समवायान्तरं नोपेयतेऽनवस्थानात् , गोत्वसमवायस्तु प्रतीतत्वादभ्युपेयोऽनवस्थाया मानाभावस्य मूलत्वादित्याह-अधिक इति । तर्हि घटाभाववभूतलमित्यत्र वैशिष्ट्यानुभवाद्वैशिष्टयमस्तु वैशिष्टयेऽनुमानाभावात्तदभाव इत्याह-अभावेऽपीति । तुल्यत्वाद्वैशिष्टयस्वीकारस्य वैशिष्टये वैशिष्टयास्वीकारस्य चेत्यर्थः । अत्रेति । वैशिष्टयस्वीकारे तद नाभधानादिति वैशिष्टयाभावसाधकमानस्याभिधातुमशक्यत्वादि

न्यायलीलावतीप्रकाशविवृतिः

'प्रतीतत्वात्प्रमितत्वात्, न तु प्रत्यक्षत्वात्। एतद्दर्शने समवायस्याप्रत्यक्षत्वादिति [१]ध्येयम् । अतएवाग्रे मानाभाव इति सामान्यत एवोक्तम् । वैशिष्ट्येति।वैशिष्टयाभावसाधकस्य मानत्वेन व्यवस्थापयितुमश


  1. अस्वीकारादिति पाठान्तरम् ।