पृष्ठम्:न्यायलीलावती.djvu/९३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

●यायलीलावतीकण्ठाभरण-लविवृतिप्रकाशोद्भासिता ८४९ कत्वात् । अजस्य तु संयोगस्पायुतसिद्ध सम्बन्धिनिष्ठत्वेन समवायाद्भेदानुपपत्तेः । अवयवावयविभावाभाव एव युत सिद्धिरिति चेन्न । गुणादेरसमवायित्वापत्तेः । तेषां स्वात- न्त्रयेणाश्रयान्तरासमवायित्वमयुतसिद्धिरिति चेन्न । तुल्यत्वात् || इति संयोगः ॥ ननु संयोगाभाव एव विभाग ( १ ) व्यवहारोऽस्तु | मैवम् । न्यायलीलावतीकण्ठाभरणम् प्रत्युत नित्या प्राप्तिः समवाय एवायं स्यादित्याह-अजस्य विति। नम्वयुत सिद्धयोः सम्बन्धः संयोग एच स्यात् तयोरवयवावयविभावाभावादि. त्यत आह-गुणादेरिति । ननु पृथगाश्रयाश्रितत्वं युतसिद्धिर्घटपटयोरिव, गुणगुणिनोरवययघावयविनोश्च न पृथगाश्रयीभूतत्वमित्ययुतसिद्धि • रेवेत्याशङ्कते तेषामिति । गुणगुणिनोरपि पृथगाश्रयाश्रितत्वमस्त्येव यतो गुणस्य गुणी गुणिनस्तु स्वावयवा इत्यत आह - स्वातन्त्र्येणेति । परस्पर- परीहारेणेत्यर्थः । नहि गुणिनं विहाय गुणस्याध्य इति भावः । तुत्यस्वादिति । इयमयुतसिद्धिर्विभुनोरण्याश्रयाभावादेवेत्यर्थः । पल्लवस्तु प्रक्रियायामिति यदुक्तं तत्राह नन्विति । संयोगध्वंसे समानाधिकरणसंयोगासमानकालीने विभागव्यवहारोपपत्तौ कि न्यायलीलावतीप्रकाशः त्वधिकमित्यत आह अजस्य त्विति । आश्रयान्तरासमवायित्वं द्वित्वा. दौ नास्तीत्यत उक्तं स्वातन्त्र्येणेति । तत्परित्यागेनाश्रयान्तरप्राप्तिः स्वातन्त्र्यम् | तुल्यत्वादिति । आकाशात्मनोरण्याअयाभावादेवाधयान्त रासमवायादयुतसिद्धिप्रसङ्ग इत्यर्थः ॥ संयोगाभाव इति । संयोगध्वंस इत्यर्थः । स च संयोगासमानका. लीनः संयोगत्वावच्छिन्नसामान्यभावो वा विवक्षितः, तेन संयुज्य न्यायलालावती प्रकाशविकृतिः विनष्टे व्यभिचारेण द्रव्यत्वस्याकाशविभागासाधकत्वात् । न च नित्यद्रव्यत्वेन तत्सिद्धिरप्रयोजकत्वादिति भावः । स च संयोगेति । तदुभयप्रतियोगिक संयोगेत्यर्थः । एवमग्रेऽपि । सा. ( १ ) वे विभागेति प्रा० पु० पाठः |