पृष्ठम्:न्यायलीलावती.djvu/९३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता ८५१ बाघकाभावात् आश्रयाश्रित संयोग मात्रनाशनाश्यः संयोगः स्यादिति निरस्तम् || स्फुटद्वेणुशब्दाच्च विभागोऽवगम्यते । स हि न वंशदल- द्वयसंयोगनाशापेक्षवंशदला काशसंयोगजन्मा, संयोगजस्य शब्दस्य संयोगनिमित्तकारणतोपळम्भात् मेरींसंयोगजस्य शब्दस्य द एडसंयोगनिमित्ततावत् । अभिषातजः स्यादिति चेत् । न । भिन्नदिङ्मुख गतिद्लयोस्तदभावात् । वायोः स्यादिति चेन । तस्य स्पर्शादिलिङ्गकस्य तदनुपलम्भेनैवासच्वावधारणात् (१), अन्यथा सर्वत्रातीन्द्रियवायुसंयोग कारणताया अनिवारणमिति सिद्धस्तावद्विभाग: । स च विभागजः, यथा वंशदलपाटनानन्तरं न्यायलीलावती कण्ठाभरणम् प्रमाणान्तरेण विभागं साधयति स्फुटदिति । परिशेषमाह सही ति । वंशदलाकाशसंयोगः पूर्वमण्यासदित उक्तं दलद्वयसंयोगनाशापे. क्षेति । दलाभिघातो निमित्तकारणं स्यादतो न नियमभङ्ग इत्याह- अभिघातज इति । वायुदला मिघातनिमित्तकः स्यादित्याह-वायोरिति । अभिघातज इत्यनुषज्यते । अन्यथेति । भेर्थ्याकाशसंयोगजेऽपि शब्दे भेरीवायुसंयोगो निमित्तकारणं न तु भेरीदण्डसंयोग इत्यपि स्या- दिव्यर्थः । स चेति । दलाकाशविभाग इत्यर्थः । शब्दासमवायि- न्यायलीलावतीप्रकाशः । लघुत्वाच्चेत्यपि द्रष्टव्यम् | स्फुटदिति । त्रयोविंशतिगुणासमवायिकारणकत्वशून्यः स्फुटते. णुजन्यः शब्दो गुणासमवायिकारणक इत्यर्थः । अत्र पक्षविशे षणासिद्धि निराकरोति स हीति | बंशदलाकाश संयोगोऽसमवायि. करणं निमित्तकारणं तु द्रव्यान्तरेणाभिघातः स्यादित्याह अभि- घातज इति । वायोरिति । अभिघातज इत्यनुषज्यते । स चेति । शब्दास न्यायलीलावतीप्रकाशविवृतिः नाशकत्वं तत्र कारणनाशत्वेनैव समवायिनाशादौ तथा कल्पनादि- ति भावः । स चेत्यनेन विभागमात्रपरामर्षे विवादाभावः कारणकारणा विभागजविभागस्य सर्वैः स्वीकारादतो विशेषपरतामाह शब्दासमदार ( १ ) नैवासस्वादिति मा० पु० पाठः ।