पृष्ठम्:न्यायलीलावती.djvu/९३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशो हाक्षिता ८५३ विरोधिविभागजनि केति कमलदलोन्मीलनादौ विभागजविभा गोत्पत्तौ विपतिापत्तेः । यदविरोधिविभागजनकं न तद्विरोधिवि. भागजतकं यथा पञ्चशाखशाखाकर्म, इयमप्यविरोधिविभागज नि का यदि स्यात् विरोधिनं न जनयेदविशेषादिति तसिद्धिरिति चेन । नियमासिद्धेः । व्यभिचारानुपलम्भात् तत्सिद्धिरिति चेन | कर्मावान्तरजातिभेदस्योपाधित्वात्, । व्यभिचारानुपलम्भे- ऽप्यप्रयोजकत्वात् । मैवम् । कर्मावान्तरवैचित्र्यस्यानुपलब्धेः । विरोधिवि- " न्यायलीलावतीकण्ठाभरणम् त्याह यदविरोधीति । अत्र विपक्षबाधकाभावमाह नेति । किञ्चित् कर्म्मजा- तीयं विरोध्यविरोधिविभागजनकं किञ्चिच्चाविरोधिविभागमात्रजनकं स्यादित्याह कर्मानान्तरेति । उपाधेनुपलम्भादव्याप्तिरेवेत्याह यदविरोधिविभागजनकं न तद्विरोधिविभागजनकमिति व्याप्तौ विरोधिविभागजनककर्म्मगत. जातिभेदाभाव उपाधिरित्याशङ्कते विरोधीति | सहकारिविशेषाधीनं कर्म्मणो विरोधिविभागजनकत्वं न तु वैजात्यं किञ्चिदिहास्ति न्यायलीलावतप्रिकाशः ध्यम् । यद्धि मूर्त्तनामूर्तेन च विभागजनकं तदेव (१) विरोधिविभाग. जनकमिति विवक्षितत्वात् । तत्सिद्धिरिति । यद्यप्यविरोधिविभागमा श्रजनकत्वेनान्यथासिद्धेरेवमपि शब्दजनकदल (काशविभागस्य वि. भागजस्वं न सिद्ध्यति, तथापि विभागजविभागसिद्धिमभ्युपत्यै- तदुक्तम् ॥ विरोधिविभागेति । विपर्ययानुमाने चायमुपाधि न च तत्र दृष्टा. न्यायलीलावती प्रकाशविवृतिः दिति । तदेव परमिस्यनेन समनियमो विवक्षितः । यद्यप्यविरोधि विभागेति । वंशदलकर्म दलविभागमेव जनयतु, दलद्वयविभागश्च विभागज इत्येतावताप्युक्तनियमोपपत्तौ शब्दसमवायिकारणवि भागस्य विभागजत्वं न सिद्धमित्यर्थः । तथापीति । जन्यभूतवि भागजाश्रय कारणद्वय पूर्वको विभागस्तथापि सिद्ध एवेत्यर्थः । विप र्ययानुमान इति । यद्ययं विरोधिविभागजनकः स्यादविरोधिविभाग. ( १ ) तदेव परमिति अत्र विवृतिवाराभिमतः पाठो द्रष्टव्यः |