पृष्ठम्:न्यायलीलावती.djvu/९४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

म्यायलीलावतीकण्ठाभरण- सविवृतिप्रका: काशोद्भासिता ८५७ तम् | यथैकदेशसंयोगविभागाभ्यां देवदत्ते संयुक्तविभक्तबुद्धिः न तथा अङ्गुली (१) कर्मणा देवदत्तचलतीति मतिरिति युक्तिसम्भ- वात् । रथे चलति देवदत्तचलनाप्रतीतिवत् स्यादिति चेत् । न, रथेन गत इति प्रतीतेः सम्भवातू (२) । कर्मणश्च संयोग विभाग- जनकत्वावधारणनियमात्, सजातीयारम्भकत्वानुपळम्भाच्च । अ. वयवकर्मैव सर्वत्र विभागारम्मकमस्तु, अन्यथा अवयवसंयोगेऽप्य संयोगिता विभागेऽप्यविभागिना युतसिद्धिप्रसङ्गात् । मैवम् । - म्यायलोलावतीकण्ठाभरणम् स्यर्थः । अङ्गुलीत रुविभागानन्तरं हस्ततरुविभागप्रत्ययस्तावत् सर्व- सिद्धः स कारणविभागमेव इवकारणमाक्षिपतीत्याह यथैकदेशेति । यथा संयोगविभागजनकत्वमुभयसिद्धं तथा कर्म्मजनकत्वं कर्मणो म कस्यचित्सिद्धमित्याह कर्म्मणश्चेति । अङ्गुलीकर्म्म शरीरपर्थ्यन्तं विभागं जनयाते विभागत्वं तस्य कुत इत्यत आह अवयवेति । असम्ब• न्यायलीलाबतीप्रकाशः संयोगनाशोत्पत्तेरित्यर्थः । यत्प्रमाणगस्यं यत् तदभावस्तदभावं गमय. तीति स्थिते सत्याह यथैकदेशेति । चलततिप्रतीतेश्च प्रत्यक्षाया अभावे ऽपि तत्र कारणाव्यभिचारिकार्येण लिङ्गेनानुमानिकी साऽस्त्येवेत्याह कर्मणश्चति । सजातीयेति । ननु यत्र नोदनेन कर्म जन्यते तत्र कर्मारम्भकं क्रियावद्रव्य संयोगविशेषस्य नोदनत्वात् | मैवम् । तत्र कर्मणः कर्मा. समवायिकारणत्वाभावात् तस्यैव चात्र निषेध्यत्वात् । युतसिद्धीति । वस्त्रोदकादौ तथा दर्शनादित्यर्थ: । नन्वङ्गुलीकर्मैब शरितरुविभा न्यायलीलावतीप्रकाशविवृतिः । यत्प्रमाणगम्यमिति । यदेकप्रमाणगम्यमित्यर्थः । कारणाव्यभिचारिकार्ये • णेति । यद्यव्येषमङ्गुली कर्मणोऽङ्गुलिसंयोगानुमाने शरीरसंयोगानुमानं, तथापि प्रत्यक्षस्थले व्याप्तिहे अङ्गुलीसंयोगेनैव तदनुमानमिति भावः । ननु नोदनेति । विशिष्टस्य नुद्यकर्मजन करवे नोदनकर्मापि जनकम् कर्मबद्रव्यसंयोगरूपत्वान्नोदनस्येति भावः । नोदककर्म णोऽनुद्यकर्मनिमित्तत्वेऽपि न समवायित्वं तदेव चात्र निषेध्यमित्याह तत्र कर्मण इति । ( १ ) विभक्तप्रत्ययस्तथा नाङ्गुलीसि प्रा० पु० पाठः । ( २ ) प्रतीतिनियमाल इति प्रा० पु० पाठः ।