पृष्ठम्:न्यायलीलावती.djvu/९४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावती १६४ परमवदुपपत्तेः ॥ इति संस्कारः || इति श्रीमदाचार्यबल्लभकृता न्यायलीलावती समाप्ता ॥ न्यायलीलावती कण्ठाभरणम् +यथा भवन्मते वेगसन्तानोपरम+स्तथास्मन्मते परमसम्भवात् कर्म्मसन्तानो. वेगप्रत्यभिज्ञा त्वस्मन्मतेऽधिकेति भावः । इदमिह लीलावत्यामत्यासङ्गेन विदितभावायाम् । श्रीशङ्करेण रचितं क+ण्ठाभरणं विराजतां लोके+ ॥ (१) स्वभ्रातुर्जीवनाथस्य व्याख्यामाख्यातवान् यतः । मत्पिता भवनाथो यान्तामिहालिखमुत्तमम् । पित्रा यद् भवनाथेन ब्याख्यातं तदिहालिखम् ॥ व्याख्यानगुणदे (?) इतिमहामहोपाध्यायश्रीभवनाथात्मजमहामहोपाध्याय. श्रीशङ्कररचितं लीलावतीकण्ठाभरणं समाप्तम् ॥ न्यायलीलावतीप्रकाशः कर्म न कर्मजन्यं कर्मत्वात् आद्यकर्मवत् । नचैवमुत्तरकर्म न वेगजन्यं कर्मत्वात् आद्यकर्मवदित्यपि स्यात्, वेगग्राहकमानबाधितत्वात्, सोपपत्तिकस्य वेगेन गच्छतीतिप्रत्यक्षस्यानुपपत्तेः प्रतिकूलतर्कपरा- हतत्वाच्चेति ॥ यस्तर्कतन्त्रशतपत्र सहकार श्मिर्गङ्गेश्वरः सुकविकैरवकाननेन्दुः ॥ तस्यात्मजोऽतिगहनं कणभक्षशास्त्रं प्राकाशयस्कृतिमुदे बुधवर्धमानः इति श्रीमहामहोपाध्यायगङ्गेश्वरसुतश्रीमन्महामहोपाध्याय. श्रीवर्द्धमानकृतलीलावतीप्रकाशः समाप्तिमगात् || न्यायला लावतप्रिकाशविवृतिः इति । इदं च वेगनानात्वाभ्युपगमेन । उत्तरकर्मेति । यद्यपदमप्रयोजकं, तथापि नानापुरुषसाधारणैकवृत्तिसजातीय धर्ममात्रस्य प्रतिबन्धक स्वकल्पनात् कर्मणोऽपि कर्मप्रतिबन्धकतया तदसमवायिकारणत्व. मिति भावः । वेगेति । कर्मजनकत्वेनैव ततसिद्धेरिति भावः । सोपपत्तिकस्येति । वेगेन गच्छतीति प्रत्यक्षेण वेगैक्यसिद्धेः, कर्मणश्चा- नेकत्वेन तस्यासमवायिकारणत्वे गौरवपराघाताश्चेति भावः ॥ इति महामहोपाध्यायशङ्करभगीरथविरचिता लीलावती- प्रकाशिका समाप्ता ॥