पृष्ठम्:न्यायलीलावती.djvu/९५

एतत् पृष्ठम् परिष्कृतम् अस्ति
२६
न्यायलीलावती


आधाराधेयभावश्च मेयान्तरम् । संयोगसमवायावेव सप्तमीत्रथमाभ्यामभिलप्यमानसम्बन्धिनौ तद्व्यहेतू इति चेन्न,


न्यायलीलावतीकण्ठाभरणम्

ति प्रतीतिबलादाधाराधेयभावोऽपि सम्बन्धोऽधिकस्तदनभिधानात् विभागव्याघात इत्याह -- आधारेति । न च संयोगवैशिष्ट्याभ्यामन्यथासिद्धिस्ताभ्यामुभयत्राधारत्वमाधेयत्वं वा प्रतीयेत न तु नियतप्रतीतिः स्यादिति भावः । सिद्धान्तान्तरेणान्यथासिद्धि विवक्षन्नियताधारत्वाधेयत्वप्रतीतौ नियामकं शङ्कते--संयोगेति । सप्तस्यन्ते सम्बन्धिनि आधारत्वप्रतीतिः प्रथमान्ते त्वाधेयत्वप्रतीतिरित्यर्थः । सप्तमीप्रथमाभ्यां सम्बन्धिनौ नाभिलप्येते, किन्तु तयोराधाराधेयत्वे प्रन्याय्येते सेयं विचित्रा प्रतीतिराधाराधेयभावसम्बन्धमन्तरेणानुपपन्ना न हि विषयधैचित्र्यमन्तरेण प्रतीतिवैचित्र्यमित्याह--नेति । यद्वा इहायमिति प्रतीत्या सप्तमीप्रथमयोरभिलापः क्रियते

न्यायलीलावतीप्रकाशः

ध्देयेत्, तत्रापि शब्दमात्रत्वाभिधानसम्भवात् । अथाबाधितप्रतीतिबलात्तत्सिद्धिः तदा वैशिष्टयमपि तथेत्यर्थः । आधारेति । न द्रव्यं गुणवृत्तित्वादित्यायुक्तयुक्त्वा तस्य पदार्थान्तरेऽनन्तर्भावादित्यर्थः । न च वैशिष्ट्यं तत्र आधाराधेययोरन्योन्यवैशिष्ट्यस्योभयवृत्तित्वादाधारत्वाधेयत्वयोश्चैकैकवृत्तित्वात् नापि सम्वन्धनान्यथासिद्धिः तस्याप्युभयवृत्तित्वादिति भावः । ननु सम्बन्धस्योभयाश्रितत्वेऽपि यतः सम्बधिनः सप्तमी तत्राधारव्यवहारो यतस्तु प्रथमा तत्राधेयव्यवहारः स्यादित्याह–संयोगेति । सप्तम्यर्थस्य संयोगित्वस्योभयवृत्तित्वेऽपि कुण्डे बद्रमित्यत्र वदरशब्दान्न सप्तमी अनभिधानादित्यर्थः । एवमिह गोत्वमित्यत्रापि समवायो न सिद्ध्येदुक्तरीत्यान्यथासिद्धेः । अथ श-

न्यायलीलावतीप्रकाशविवृतिः

रतो हेतुं पूरयति-- न द्रव्यमिति । पदार्थोन्तरे क्ऌपदार्थ [१] । सम्बन्धेन संयोगादिना । ननु सप्तम्यर्थस्य संयोगादेरुभयाश्रितत्वे सप्तमीप्रयोग एव कि नियामकमत आह - सप्तम्यर्थस्थेति । परम्परासम्बन्धेन द्रव्या-


  1. क्लृप्तपदार्थान्तरे इत्यर्थ इति पाठान्तरम् ।