पृष्ठम्:न्यायलीलावती.djvu/९९

एतत् पृष्ठम् परिष्कृतम् अस्ति
३०
न्यायलीलावती

द्रव्यादिषट्कविच्छेदमेलकेन विवर्जिताः ॥

भावत्वाधिष्ठानैकैकव्यक्तिमात्रे षड्लक्षणानां मिलितोऽयोगो व्यवच्छिद्यते न तु मिलितानामयोगः । अयोगश्चान्यत्राव-

न्यायलीलावतीकण्ठाभरणम्

द्रव्यादीति भावप्रधानो निर्देशस्तेन भावव्यक्तयः षण्णां द्रव्यत्वगुणत्वादीनां ये विच्छेदा अत्यन्ताभावास्तेषां यो मेलकस्तेन विवर्ज्जिता इत्यर्थः । ननु भावसमुदाये षड्लक्षणाभावमेलकसत्वात् तन्निषेधे बाध इत्यत उक्तं प्रत्येकं व्यक्तय इति समुदायस्य समुदायिभ्योऽन्यत्वपक्षेऽनन्यत्वे तु प्रत्येकमिति व्यर्थम् । कारिकार्थमाह - भावत्वेति । अभावे मिलितो योऽयोगः प्रसिद्धो भावव्यक्तिषु निषिध्यते न तु मिलितानामिति षण्णां लक्षणानामेकत्रासत्त्वेन मिलनासम्भवादित्यर्थः । अन्यत्रेति । अभाव इत्यर्थः । अत्र भावव्यक्तिषु ।

न्यायलीलावतीप्रकाशः

तु पदार्थमात्रस्येत्युक्तम् । द्रव्यादीति | भावव्यक्तयः प्रत्येकं व्यादिषड्लक्षणात्यन्ताभाबमेलकशून्या इत्यर्थः । मिलितोऽयोग इति । अभावे तत्प्रसिद्धिः । न त्विति । लितलक्षणात्मकप्रतियोग्यप्रसिद्धेरित्यर्थः । ननु भावत्वेन षडेव द्रव्यादिव्यक्तयो विवक्षितास्तदन्या वा ? आद्ये सिद्धसाधनम्, न च सप्तमभावनिषेधः, अन्त्ये चाप्रसिद्धिः मेलकक्ष्चात्र षडभावमात्रवृत्तिधर्मः कश्चित् षडेव वा अभावाः । आधे सिद्धसाधनं न हि षडभवामात्रवृत्रिधर्मो भाववृत्तिः तादृशधर्माप्रसिद्धिक्ष्च । प्रसिद्धावपि (१)व[१] तस्याभावः। : सिध्धतु न तु मेलकिनां तावतामभावानामभावः । अथ (२)[२] मेलकाभावो न मेलकिनामभावं विनेति मेलाक-

न्यायलीलावतीप्रकाश विवृतिः

ब्दप्रयोगरूपव्यवहारेऽवधिज्ञानापक्षेत्यपि न वाच्यं तत्रापि व्यवहर्त्तव्यतावच्छेदकस्य प्रवृत्तिनिमित्तीभूतस्य सजातीयसाक्षात्कारेत्यादेशवधिज्ञानज्ञयत्वात् व्यवहर्त्तव्यतावच्छेदकस्यापि व्यवहर्त्तव्यत्वादिति भावः । षट्त्वावच्छिन्नेऽत्यन्ताभावमेलकसत्वाद्वाध इत्यत आह - प्रत्येकमिति । अन्त्य इति । षडेवाभावा इति पक्ष इत्यर्थः ।


  1. बुद्धिविशेषविषयत्वं न दुर्लभमित्यत आह - प्रसिद्धावपीति ।
  2. अथेति । परम्परासम्बन्धेन धर्मस्यामायः परम्पराघटकधर्म्यभावे विना नेत्यर्थः ।