पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • पञ्चतन्त्रम् *

[१ मित्र- यदि स्याच्छीतलो वह्निः शीतांशुर्दहनात्मकः । न स्वभावोऽत्र मानां शक्यते कर्तुमन्यथा ।। २८१ ।। अथाऽसौ महीपतिः सूच्यग्रविद्ध इव तच्छयनं त्यक्त्वा तत्क्षणादेवोत्थितः-प्राह च-'अहो! ज्ञायतामत्र प्रच्छादनपटे मत्कुणो यूका वा नूनं तिष्ठति, येनाहं दष्टः' इति । अथ ये कञ्चः किनस्तत्र स्थितास्ते सत्वरं प्रच्छादनपटं गृहीत्वा सूक्ष्मदृष्टया वीक्षाञ्चक्रुः । अत्रान्तरे स मत्कुणश्चापल्यात्खट्वाऽन्तं प्रविष्टः । सा मन्दविसर्पिण्यपि वस्त्रसन्ध्यन्तर्गता तैदृष्टा, व्यापादिता च । अतोऽहं ब्रवीमि-'न ह्यविज्ञातशीलस्य-'इति । * एवं ज्ञात्वा त्वयैप वध्यः, नो चेत्त्वां व्यापादयिप्यति । " त्यक्ताश्चाऽभ्यन्तरा येन बाह्याश्चाभ्यन्तरीकृताः । स एव मृत्युमाप्नोति मूर्खश्चण्डरवो यथा ।। २८२ ।। पिङ्गलक आह-'कथमेतत् ? । सोऽब्रवीत्- १०. चण्डरव-शृगाल-कथा कस्मिश्चिद्वनप्रदेशे चण्डरवो नाम शृगालःप्रतिवसति स्म। स कदाचिक्षुधाविष्टो जिह्वालौल्यानगरान्तरेऽनुप्रविष्टः । अथ तं नगरवासिनः सारमेया अवलोक्य सर्वतः शब्दाय अतुदत् । अन्यथा कर्ता परिवर्त्तयितुम । ।। २८० ॥ शीतांशु चन्द्रः । दहना. त्मकः तीक्ष्णप्रताप.। सर्वथा पुंसा स्वभावोऽन्यथा कर्तुं न शक्यते-इत्यागयः ॥ २८१ ।। (प्रच्छादनपट = चद्दर' 'मुजनी 'चादनी' )। कञ्चुकिन'-अन्त पुररक्षका ('चोवदार- 'जमादार' ) । वीक्षामक = ददृशु । अन्तरे अवसरे। चापल्यात् आशुगामित्वान् । तैः कथुकिभि. । व्या पादिता-हता। आभ्यन्तरास्ववान्धवादय । त्यक्ता उत्सारिताः । वाया - असम्बन्धिनोऽवान्धवाश्च । अभ्यन्तरीकृता =अन्तरकता नीता । अधिकारस्थानेषु नियुक्ताश्च ॥ २८२॥ १ 'यथा राजा ककुद्रुम' । पा० ।