पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भेद ]

  • अभिनवराजलक्ष्मीविराजितम् *

१० मानाः परिधाव्य तीक्ष्णदंष्ट्राग्रैक्षितुमारब्धाः । सोऽपि तैर्भक्ष्य- माणः प्राणभयात्प्रत्यासन्न रजकगृहं प्रविष्टः। तत्र च नीलीरस- परिपूर्ण महाभाण्डं सजीकृतमासीत् । तत्र सारमेयैराक्रान्तो भाण्डमध्ये पतितः । अथयावन्निष्क्रान्तस्तावनीलवर्णःसञ्जात । तत्राऽपरेसारमेयास्तंशृगालमजानन्तो यथाऽभीष्टां दिश जग्मुः।। चण्डरवोऽपि दूरतरं प्रदेशमासाद्य काननाभिमुखं प्रतस्थे । न च नीलवर्णेन कदाचिन्निजरङ्गस्त्यज्यते । उक्तञ्च- वज्रलेपस्य मूर्खस्य नारीणां कर्कटस्य च । एको ग्रहस्तु मीनानां नीलोमद्यपयोरपि ।। २८३ ।। अथ तं हरगलगरलतमालसमप्रभमपूर्व सत्त्वमवलोक्य सर्वे सिह-व्याघ्र-द्वीपि -वृक-वानरप्रभृतयोऽरण्यनिवासिनो भय- व्याकुलचित्ताः समन्तात्पलायनक्रियां कुर्वन्ति, कथयन्ति च-न ज्ञायतेऽस्य कीदृग्विचेष्टितं, पौरुषं च ? तद्तरं गच्छामः। उक्तञ्च- न यस्य चेष्टितं विद्यान्न कुलं न पराक्रमम् । न यस्य विश्वसेत्प्राज्ञो यदीच्छेच्छियमात्मन.' ॥ २८४ ।। चण्डरवोऽपि तान्भयव्याकुलितान्विज्ञायेदमाह-भो भोः श्वापदाः! किं यूयं मां दृष्ट्वैव सन्त्रस्ता व्रजथ ?, तन्न भेतव्यम् । क्षुधाविष्ट' बुभुक्षित । नगरान्तरे नगरमध्ये। सारमेया =कुक्कुरा । सोऽपि शृगालोऽपि । प्रत्यासन्नं निकटवर्ति ।रजकस्य-वस्त्रनिर्णेजकस्य ('धोबी' 'रंगरेज')।' महाभाण्ड-महत्पात्रम् । (कुण्डा )। सज्जीकृत= गुणीकृत्य स्थापितम् । यथा- भीष्टदिश-स्वस्वस्थानाभिमुखम् । निजरङ्ग =नीलत्व, ('रंग')। वज्रलेप सन्धिपिधानाय निर्मितो लेपभेद । नीली नीलीरस ,-( नीला रग)। एको ग्रह इति । यदि मे गृह्णन्ति न तत्पुन परित्यजन्ति-इत्याशय ॥२८३॥ हरस्य गम्भो , गले यद्गरलं, तच्च, तमालश्च तापिच्छश्च ताभ्या समा भा= कान्तिर्यस्य तम्,-हरगलगरलतमालसमप्रभ गाढनीलवर्ण, त-शृगालम् । अपू- र्वम् अदृष्टपूर्व । सत्त्व-जन्तुभेदम् । विचेष्टित-स्वभाव । पौरुष-पराक्रम । तस्य-त, प्राज्ञ =विद्वान् । श्रियं कल्याणम् ॥ २८४ ॥