पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • पञ्चतन्त्रम् *

[१ मित्र- तथाच- सेवया धनमिच्छद्भिः सेवकैः पश्य यत्कृतम् । स्वातन्त्र्यं यच्छरीरस्य मूढैस्तदपि हारितम् ॥ २८७ ॥ तावजन्माऽपि दुःखाय ततो. दुर्गतता सदा । तत्रापि सेवया वृत्तिरहो ! दुःखपरम्परा ।। २८८ ।। जीवन्तोऽपि मृताः पञ्च श्रूयन्ते किल भारते । दरिद्रो व्याधितो मूर्खः प्रवासी नित्यसेवकः ॥ २८९ ॥ नानाति स्वेच्छयौत्सुक्याद्विनिद्रो न प्रबुध्यते । नै निःशङ्कं वचो ब्रूते सेवकोऽप्यत्र जीवति ? ॥ २९० ॥ सेवा श्ववृत्तिराख्याता यैस्तैर्मिथ्या प्रजल्पितम् । स्वच्छन्दं चरति श्वाऽत्र, सेवकः परशासनात् ।। २९१ ॥ भूशय्या ब्रह्मचर्यञ्च कृशत्वं लघुभोजनम् । सेवकस्य यतेर्यद्वद्विशेप' पापधर्मजः ।। २९२ ।। परायत्ता -पराधीना । अनिवृतम् सुखशून्यम् । सूरै सेवकैर्यत्कृतं तत्पश्य-यत् शरीरस्वातन्त्र्यमपि हारितमिति-सेवकनिन्टेयम् । तावदिति तावत्-प्रथम,जन्मैव-अतिदु खफलम् , ततोऽपि दुर्गता=दारिद्य दुखाय, तत्रापि यदि परसेवया बृत्ति =जीवन, तर्हि महतीयं दु खसन्तति- रित्यर्थ ॥ २८८॥ भारते-महाभारताख्ये इतिहासे । प्रवासी-सदा परदेशे निवसन् ॥२८९॥ स्वेच्छया-औत्सुक्यात औत्कण्ठ्यात् । विनिद्र =विगतनिद्र । अपूर्णनिद्र एव कार्यभारान्मध्य एव खण्डितनिद्रो जागत्याशय । अत्र-संसारे । जीवति प्राणधारण करोति । यद्वा काकुरियं-कि सेवकोऽपि जीवति ?' नैव, मृततुल्य एवायमित्याशय ॥ २९० ।। सेवेति । 'सेवा श्ववृत्तिरिति यैर्मन्वादिभिरुक्तं तैर्मिथ्यैवोक्तं, यत श्वा तु स्वतन्त्रश्चरति, परं सेवकस्तु तदपि स्वातन्त्र्य न लभते, परशासनादेव प्रचलति- इात महदनयोवैषम्यमिति भाव ॥ २९१ ॥ भूमिशय्यादिकं सर्व सेवकस्य सम्पत्तय-सम्पद । १ 'व्यासेन परिकीर्तिता'। २ 'आहरन्नपि न स्वस्थ ' इति पा०। ३ 'वक्ति न' स्वेच्छया किञ्चित्सेवकोऽपीह जीवति ॥' पा० ।