पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भेद ]

  • अभिनवराजलक्ष्मीविराजितम् *

११३ अथ सञ्जीवकस्तस्य तद्वज्रपातदारुण वचनं श्रुत्वा मोहमु- पागतः । अथ चेतनां लब्ध्वा सवैराग्यमिदमाह-भोः । साध्वि- दमुच्यते- दुर्जनगम्या नार्य. प्रायेणाऽस्नेहवान्भवति राजा। कृपणाऽनुसारि च धनं मेघो गिरिदुर्गवी च ।। ३०१॥ 'अहं हि संमतो राज्ञो' य एवं मन्यते कुधीः । बलीवर्दः स विज्ञेयो विपाणपरिवर्जितः ।। ३०२।। वरं वनं वरं भक्ष्यं वरं भारोपजीवनम् । वरं विपन्मनुष्याणां नाऽधिकारेण सम्पदः ।। ३०३ ॥ तदयुक्तं मया कृतं,-यदनेन सह मैत्री विहिता । उक्तञ्च- ययोरेव समं वित्तं ययोरेव समं कुलम् । तयोमैत्री विवादश्च, न तु पुष्टविपुष्टयो. ॥ ३०४ ।। तथाच- मृगा मृगैः सङ्गमनुव्रजन्ति गावश्च गोभिस्तुरगास्तुरङ्गैः । मूर्खाश्च मूर्खः सुधियः सुधीभिः समानशीलव्यसनेषु सख्यम् ॥३०५।। तद्यदि गत्वा तं प्रसादयामि, तथापि न प्रसादं यास्यति । साम्प्रतम् इदानीम् । वज्रपातदारुणं-वज्रपातवत्सुदु सह, मोह-मूर्छाम् । 'सवैराग्य'मिति क्रियाविशेपणम् । दुर्जनगम्या: दुष्टजनानुरक्ता । धन-लक्ष्मी । कृपणानुसारि-कृपणगामि । गिरिदुर्गवर्षी निष्फल गिरिदुर्गेषु वर्षति,न सस्यान्वितेषु क्षेत्रेपु-इति भाव ॥३०१॥ बलीवर्द अपभ, मूर्खत्वात् । विपाणपरिवर्जित शृङ्गरहित ॥ ३०२ ॥ भैक्ष्य भिक्षाटनम् । भारोपजीवनम्-भृतिकर्म । विपत् दारिद्रयादिना क्लेश । अधिकारेण राजसेवया ॥३०३॥ अनेन सिहेन । वित्तं धनम् , मैत्री विवादश्च समानैरेव करणीय । पुष्टविपुष्टयो =धनिनिर्धनयो , वलिनिर्वलयोश्च सख्यं विवा- दश्च न युक्त इत्यर्थ ॥३०४॥ तुरगा =अश्वा । समान शीलं व्यसनञ्च येषा तेषु तुल्यस्वभावाचारपु, सख्यम्-मैत्री। 'युज्यते' इति शेप ॥ ३०५ ॥ त-सिहम् । 'अपात्रभृद्भवति राजा' । पा०।२ 'गिरिजलधिवर्षी' । ३ 'व्याधि' पा० ।