पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भेद 1

  • अभिनवराजलक्ष्मीविराजितम् *

१२१ क्षितितले प्रभूततर यशः । तन्नात्र विकल्पः कार्यः । उक्तञ्च- मृतानां स्वामिन' कार्ये भृत्यानामनुवर्तिनाम् । भवेत्स्वर्गेऽक्षयो वास कीर्तिश्च धरणीतले ।। ३२१ ।। तच्छ्रुत्वा क्रथनकश्चिन्तयामास-'एतैस्तावत्सर्वैरपि शोभ- नानि वाक्यानि प्रोक्तानि न चैकोऽपि स्वामिना विनाशितः। तदहमपि प्राप्तकालं विज्ञापयामि, येन सम वचनमेते त्रयोऽपि समर्थयन्ति । इति निश्चित्य प्रोवाच-भोः ! सत्येमुक्तं भवता, परं भवानपि नखायुधः, तत्कथं भवन्तं स्वामी भक्षयति ? । उक्तञ्च-मनसाऽपि स्वजात्यानां योऽनिष्टानि प्रचिन्तयेत् । भर्वन्ति तस्य तान्येव इह लोके परत्र च ॥३२२॥ तदपसराऽग्रतः, येनाहं स्वामिनं विज्ञापयामि । तथानुष्ठिते ऋथनकोऽग्रेस्थित्वा प्रणम्योवाच-स्वामिन् ! एते तावदभक्ष्या भवतां, तन्मम प्राणःप्राणयात्रा विधीयतां, येन ममोभयलोक- प्राप्तिर्भवति । उक्तञ्च- न यज्वानोऽपि गच्छन्ति ता गति नैव योगिनः । यां यान्ति प्रोज्झितप्राणाः स्वाम्यर्थे सेवकोत्तमाः ।। ३२३ ॥ एवमभिहिते सिहानुज्ञाताभ्यां शृंगालचित्रकाभ्यां विदा. कार, भावान्तरञ्च॥३२०॥ विकल्प =संशय । अनुवर्तिनाम् आज्ञापालकानाम्।३२१। शोभनानिप्रशंसापराणि चाट्न प्रार्थनावाक्यानि, प्राप्तकालम् अवसरो- चितम्। समर्थयन्ति प्रशसन्ति। 'विघटयन्तीति पाठे खण्डयन्तीत्यर्थ । भवान् व्याघ्र । मनसापीति । तानि-अनिष्टानि। परत्र-परलोके च ।। ३२२ ॥ यज्वान = यज्ञकर्तार । 'यज्वा तु विधिनेष्टवा'नित्यमर । प्रोज्झितप्राणा =त्यक्तप्राणा, मृता ॥ ३२३ ॥ १'स्थितानाम्' । २ 'त्रयोऽपि विघटयन्ता ति लिखितपुस्तकपाठो मनोहर । ३ 'युक्तम् । ४ 'तस्य लोकद्वय नास्ति भवेच्चाशुचिकीटक.'। ५ 'स्वाम्यर्थे प्रोज्झितप्राणा या गतिं यान्ति सेवका ।' ६ ताभ्या' पा० ।