पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२२

  • पञ्चतन्त्रम् *

[१ मित्र- . रितोभयकुक्षिः, काकेनोत्पाटितनयनः क्रथनकः प्राणानत्याक्षीत्। ततश्च तैः क्षुद्धार पीडितैः सर्वैभक्षितः । अतोऽहं ब्रवीमि-बहवः पण्डिताः क्षुद्राः' इति ! 8 तद्भद्र ! क्षुद्रपरिवारोऽयन्ते राजा मया सम्यग्ज्ञातः, सता- मसेव्यश्च । उक्तञ्च- अशुद्धप्रकृतौ राज्ञि जनता नाऽनुरज्यते । यथा गृध्रसमासन्नः कलहंसः समाचरेत् ।। ३२४ ॥ तथा च- गृध्राकारोऽपि सेव्यः स्याद्धंसाकारैः सभासदैः । हंसाकारोऽपि सन्त्याज्यो गृध्राकारैः स तैर्नृपः ।। ३२५ ॥ तन्नूनं ममोपरि केनचिदुर्जनेनायं प्रकोपितः, तेनैवं वदति । अथवा भवत्येतत् । उक्तञ्च- मृदुना सलिलेन हन्यमानान्यवघृष्यन्ति गिरेरपि स्थलानि । उपजापविदांच कर्णजापैः किमु चेतांसि मृदूनि मानवानाम् ? ॥३२६।। चित्रक =व्याघ्रः । विदारितोभयकुक्षि =विदारितोदरपार्श्वयुगल । क्षुद्धार- पीडित =क्षुधापीडितै । पाठान्तरे-क्षुद्रपण्डितै -नीचकर्मपटुभिरित्यर्थ । क्षुद्र- परिवार =क्षुद्रानुचरपरिवृत । अशुद्धा -प्रकृतय =अमात्यादय परिवारा यस्यासों -अशुद्ध प्रकृति, तस्मिन् नीचपरिवृते। 'गृध्रासन्नो हंसो हि गृध्रवदेव समाचरति' सङ्गवशात्, एवं नीचपरिवृतो राजा स्वयं साधुरपि न प्रजारञ्जक इति हसो यथा तादृशो दूरत परिहार्यों भवति, तथा राजाऽपि दुष्टगणपरिवृतस्त्याज्य एवे- त्याशय ॥ ३२४ ॥ गृध्राकारः दुष्टस्वभाव । हसाकारै =सद्भि । सभासदै -अमात्यादिवर्ग- उपलक्षित -सेव्य । तै =अमात्यादिभि ॥ ३२५ ॥ मृदुनेति । अवघृष्यन्ति हीयन्ते । ( गड्ढे पड जाते है)। उपजापविदा भेदकर्मकुशलाना । कर्णजापे = निन्दावाक्यै ॥३२६॥ १. 'क्षुद्रपण्डितै.' पा० । २ 'खन्यमानान्यवपुष्यन्ती'तिलिखितपुस्तकपाठ. ।