पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भेद ] .

  • अभिनवराजलक्ष्मीविराजितम् *

१२३ कर्णविपेण च भग्नः किं कि न करोति बालिशो लोक.। क्षपणकतामपि धत्ते । पिबति सुरां नरकपालेन । ॥ ३२७ ।।' अथवा साध्विदमुच्यते- पादाहतोऽपि दृढदण्डसमाहतोऽपि यं दंष्ट्रयास्पृशति तं किल हन्ति सर्प.। कोऽप्येप एव पिशुनोऽस्त्यमनुष्यधर्मा कर्णे परं स्पृशति हन्ति परं समूलम् ।। ३२८ ।। तथाच- अहो खलभुजङ्गस्य विपरीतो वधक्रम । कर्णे लगति चैकस्य प्राणैरन्यो वियुज्यते ।। ३२९ ।। तदेवं गतेऽपि किं कर्तव्यमित्यहं त्वां सुहृद्भावात्च्छामि ।' दमनक आह-तद्देशान्तरगमनं युज्यते, नैवंविधस्य कुस्वामिनः सेवां विधातुम् । उक्तञ्च- गुरोरप्यवलिप्तस्य कार्याकार्यमजानत.। उत्पथप्रतिपन्नस्य परित्यागो विधीयते ॥ ३३० ।। सञ्जीवक आह-'अस्माकमुपरि स्वामिनि कुपिते गन्तुं न शक्यते, न चान्यत्र गतानामपि निर्वृतिर्भवति । उक्तञ्च- कर्णविषेण-कर्णे दुष्टै कथितेन दुर्वाक्यजालेन । (ताना )। भग्न = वञ्चित , विकारं प्राप्तश्च, ( विगडा हुआ') । वालिश =मूर्ख । क्षपणकता= नग्नता-वत्ते, नरकपालेन मद्यञ्च पिबति, परप्रतारितो मूर्खलोक । अनेन जैन- कापालिकमतमपि कटाक्षितम् ॥ ३२७ ।। पादेति । पादताडितो दण्डाहतश्च सर्पो दशति । पर पिशुन =खलस्तु कोऽपि-अमनुप्यधर्मा-अलौकिकसामर्थ्यशाली-अस्ति य -कर्णे-परम् अन्यम ।। अपरश्च-समूलम् सानुवन्धम् ॥ ३२८ ॥ खल एव भुजगस्तस्य-खलभुजङ्गस्य- खलसर्पस्य । विपरीत =विरुद्ध । वधक्रम -मारणप्रकार ॥ ३२९ ॥ सुहृद्भा- वात् मित्रत्वात् । न सेवा विधातुं युज्यते' इत्यन्वय । अवलिप्तस्य मदोन्मत्तस्य । उत्पथप्रतिपन्नस्य-कुमार्गगामिन । गुरोपि १. 'कर्णेऽपर हन्त्यपरं' पा० ।